________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४८॥
चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम्।
8282828282828282828282828286
गत्वा सपरिवारोऽपि भोजनावसरं कुरु । सर्वार्थसाधकः कायश्चलत्येष हि भोजनात् ॥१०७॥ एवं पित्रा समादिष्टो भूयो भूयोऽपि साग्रहम् । सदुःखो बुभुजे किञ्चिद् विष्णुः समददन्तिवत् ॥१०८॥ श्रीखण्डमप्यनादायावसानश्चान्यवाससी । नाटयन्नतिदुःखेनावतप्ते नकुलस्थितम् ॥१०९॥ भुक्तमात्रो निजावासात् पादचारी जनार्दनः । पितुर्जगाम सदनं दीनाशेषपरिच्छद : ॥११०॥॥युग्मम् ॥ तत्र च प्रविशन् विष्णुर्जननीद्वाःस्थयैकया । अग्रेभूत्वा सकरुणं व्यज्ञपीदमुदश्रिया ॥१११ ॥ कुमार ! परित्रायस्व परित्रायस्व नन्वसौ । जीवत्यपि महाराजे देवीदं दुर्व्यवस्यति ॥११२ ॥ तदाकर्ण्य वचो विष्णुः संभ्रान्तो मातुरालयम् । जगाम वीक्षाञ्चक्रे च मातरं ब्रुवतीमिति ॥ ११३ ॥ पतिप्रसादादुद्भूता ये प्राज्या रत्नराशयः । अनन्तं काञ्चनं यच्च ये वा रजतसंचयाः ॥ ११४ ॥ मुक्तामया वज्रमया जात्यरत्नमयाश्च ये । संमिश्रा ये च नेपथ्यसमुदायाः सहस्रशः ॥११५ ॥ यच्चान्यत् कोशसर्वस्वं सप्तक्षेत्र्यां तदर्प्यताम् । महापथप्रस्थितानां पाथेयं हीदमादिमम् ॥ ११६ ॥ पत्युर्विपत्तौ वैधव्यसहाऽस्मि न मनागपि । अहं तदने यास्यामीत्यनलः सज्ज्यतां द्रुतम् ॥ ११७ ॥ इति ब्रुवाणां जननी जननी दुःखसंपदः । उपेत्य नत्वा च हरिया॑हरद् गद्गदाक्षरम् ॥११८ ॥ मातर्मातस्त्वमपि मां मन्दभाग्यं किमुज्झसि । अहो ! विरुद्धं मे दैवं देव्यैवं यत् प्रचक्रमे ॥११९ ॥ अम्मादेव्यप्युवाचैवं तज्ज्ञैः सम्यक् परीक्षितः । त्वत्तातस्योपस्थितोऽयं रोगः प्राणहरो हरे ! ॥ १२०॥
१ मदसहितो गजो यथा सदुःखं स्वल्पं भुङ्क्ते तद्वत् । २ चन्दनम् । ३ अवतप्ते स्थाने नकुल स्थितिवत् । ४ अयोग्य व्यवस्यतीत्यर्थः । ५ मरणे । ६ जनयित्रीम् । ७ वैद्यैरित्यर्थः ।
828282828282828282828282828
पुरुषसिंहसुदर्शननिशुम्भचरितम्।
१४८॥