________________
चतुर्थं पर्व पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते
सर्गः
॥१५३॥
श्रीधर्मनाथजिनचरितम् ।
1282828282828282828282828282
निरन्तरं निपतितैर्विशिर्खप्रकरैस्तयोः । बभार रणभूर्वेत्रच्छन्नवारिधिविभ्रमम् ॥ १७६ ॥ करमुक्तैर्यन्त्रमुक्तैर्मुक्तामुक्तैरथापरैः ।आयुधैर्युयुधाते तो युद्धाम्भोधितिमिङ्गिलौ ॥१७७ ॥ ज्वलज्ज्वालालिजिह्वालं करालं तीक्ष्णधारया । वज्रीव वज्रं सस्मार निशुम्भश्चक्रमुच्चकैः ॥ १७८ ॥ स्मृतमात्रोपस्थितं तदङ्गल्या भ्रमयन् दिवि । सावष्टम्भोऽभ्यधत्तैवं निशुम्भः क्षोभणं वचः ॥ १७९ ॥ अनुकम्प्योऽसि बालोऽसि का लज्जा तेऽपसर्पतः । तद्गच्छ मां वा सेवस्व किंते श्वाऽपि न मन्त्रकृत् ? ॥१८०॥ चक्रेणानेन मुक्तेन दारयामि गिरीनपि । तवाभिनवकूष्माण्डकोमलस्य तु का कथा ॥१८१॥ ऊचे पुरुषसिंहोऽथ तवेत्यूजितर्जितः । ओजश्चक्रस्य च प्रेक्ष्यमन्यास्त्रैः किं कृतं त्वया ? ॥१८२॥ शक्रधन्वेव मेघेन त्वया चक्रमिदं धृतम् । किं मे करिष्यते मूढ ! मुञ्च पश्याम्यमोघताम् ॥१८३॥ एवं पुरुषसिंहेन भाषितः परुषाक्षरम् । सर्वौजसाऽमुचच्चक्रं निशुम्भो निशुशुम्भिषुः ॥१८४ ॥ हरेरुरसि तुम्बाग्रभागेनास्फाल्य तद्रयात् । मोघीबभूव विन्ध्याद्रेस्तट्यामिव महागजः ॥१८५ ॥ मूर्च्छया पुण्डरीकाक्षो मुकुलाक्षोऽपतत् ततः । मुशलास्त्रेण सिषिचे चाथ गोशीर्षचन्दनैः ॥ १८६ ॥ उत्थाय लब्धसंज्ञस्तच्चक्रमादाय पाणिना । मा तिष्ठ गच्छ गच्छेति निशुम्भं प्रत्यभाषत ॥ १८७॥ मुञ्च मुञ्चेति वदतो निशुम्भस्य शिरस्ततः । चकतं तेन चक्रेणार्धचक्री सोऽथ पञ्चमः ॥१८८ ॥
8282828282828282828282828286
पुरुषसिंहसुदर्शननिशुम्भचरितम्।
॥१५३ ॥
१ बाणसमूहैः । २ युद्धमेव समुद्रस्तस्मिस्तिमिङ्गिलौ मत्स्यविशेषौ । ३ सगर्वः । ४ श्वाऽपि तव विचारदाता किं नास्ति । ५ इन्द्रचापः। ६ हन्तुमिच्छुः । ७ विफलीबभूव। ८ मुशलमस्त्रं यस्य तेन बलदेवेन ।