________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४५॥
चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् ।
282828282828282828282828282
गतेषु तस्य देवस्यायुषः षोडशवार्धिषु । इहैव पोतनपुरे राजा विकट इत्यभूत् ॥६७॥ कुञ्जरः कुञ्जरेणेव विजिग्ये स्वभुजौजसा । रणाङ्गणे राजसिंहाभिधानेन स भूभुजा ॥६८॥ पराजयेन तेनाथ हिया राज्यं स्वसुनवे । दत्वा गत्वा चातिभूतेः पादान्ते व्रतमाददे ॥६९॥ तपः स तीव्र तेपे च निदानमिति चाकरोत् । भवान्तरे राजसिंहोच्छेदाय स्यामहं ध्रुवम् ॥७० ॥ इत्थं कृतनिदानः सन् कालयोगाद् विपद्य सः । कल्पे द्वितीय उत्पेदे द्वयर्णवायुः सुरोत्तमः ॥७१ ॥ राजसिंहनृपः सोऽपि चिरं भ्रान्त्वा भवार्णवम् । भरतान्तहरिपुरे निशुम्भोऽभून्महीपतिः ॥७२॥ स कृष्णवर्णः पञ्चाग्रचत्वारिंशद्धनूनतः । दशवत्सरलक्षायुर्भुव्यभूदुग्रशासनः ॥७३॥ अपाग्भरतवर्षाधु साधयित्वेकलीलया । प्रतिविष्णुः सोऽर्धचक्री पञ्चमः समजायत ॥ ७४ ॥ इतश्चात्रैव भरते नगरेऽश्वपुराभिधे । शिवो नामाभवद् राजा शिवानामेकमास्पदम् ॥७५ ॥ तस्याभूतामुभे पल्यौ नामतो विजयाम्मके। नितान्तं वल्लभे मूर्तिमत्यौ कीर्तिश्रियाविव ॥७६ ॥ पुरुषवृषभजीवः सहस्रारादथ च्युतः । चतुःस्वप्नाख्यातबलजन्माऽऽगाद् विजयोदरे ॥ ७७ ॥ पूर्णे काले च विजयास्वामिनी सुषुवे सुतम् । अवदातं वपुष्मन्तमिव पत्युर्यशश्चयम् ॥ ७८ ॥ उत्सवेन गरिष्ठेन शिवोऽथ दिवसे शुभे । सुदर्शनत्वात् तस्याख्यां सुदर्शन इति व्यधात् ॥ ७९ ॥ इतो विकटजीवोऽपीशानकल्पात् परिच्युतः । सप्तस्वप्नाख्यातविष्णुजन्मागादम्मकोदरे ॥८०॥
१ द्विसागरोपमायुः । २ कल्याणानाम् । ३ चतुर्भिः स्वप्नैराख्यातं बलभद्रस्य जन्म येन सः । ४ निर्मलम् ।★ महता । ५ सुष्ठदर्शनं यस्य तस्य भावस्तत्त्वं तस्मात् ।
128282828282828282828282828
पुरुषसिंहसुदर्शननिशुम्भचरितम्।
॥१४५॥