________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४६॥
चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् ।
182828282828282828282828
असूत समये साऽपि तनयं पूर्णलक्षणम् । इन्द्रनीलमणिनीलं नीलोत्पलमिवापगा ॥८१ ॥ एष सिंहः पुरुषेषु पौरुषेणातिशायिना । ततोऽस्य पुरुषसिंह इत्याख्यामकरोनृपः ॥ ८२ ॥ धात्रीजनै ल्यमानौ क्रीडन्तौ तौ परस्परम् । नीलपीताम्बरौ तालतााङ्को वृद्धिमीयतुः ॥८३ ॥ तौ साक्षिणमुपाध्यायं कृत्वा जगृहतुः कलाः । सावधानौ स्वनिखातसंनिधाननिधानवत् ॥८४॥ अभूतां कवचहरौ भ्रातरौ तौ क्रमेण च । प्रतिमल्लाविव द्यावापृथिव्योश्च व्यराजताम् ॥ ८५ ॥ परस्परं स्नेहलौ तावश्विनाविव सौदरौ । अत्यन्तभक्तौ च पितुर्व्यवर्तेतां पदातिवत् ॥८६॥ अन्यदा कस्यचिद् दर्पभाजः पर्यन्तभूपतेः । साधनाय शिवः प्रैषीद दिव्यास्त्रमिव सीरिणम् ॥८७॥ स्नेहात् पुरुषसिंहोऽपि तं प्रयाणानि कानिचित् । अन्वगात् प्रेमबन्धो हि वज्रलेपानुहारकः ॥८८ ॥ कथञ्चिद् बलभद्रेण प्रत्यादिष्टोऽनुयानतः । तत्रैवास्थाद्धरिः कष्टं यूथभ्रष्ट इव द्विपः ॥ ८९ ॥ विनौदैविविधस्तत्र दुःखं भ्रातृवियोगजम् । स यावत् क्षपयंस्तस्थौ तावदागात् पितुः पुमान् ॥१०॥ तेनार्पितं पितुर्लेखं मूर्धन्याधत्त माधवः । शीघ्रमागच्छ वत्सेति तत्रैक्षिष्टाक्षराण्यपि ॥ ९१ ॥ स संभ्रान्तस्तमित्यूचे कच्चित् कुशलमम्बयोः । कुशलं तातपादानां शीघ्राह्वानं च किं मम ? ॥९२ ॥ पुरुषोऽप्यब्रवीदेवमले दाहज्वरो महान् । उत्पन्नोऽस्तीति देवस्त्वां समाह्वयति सत्वरम् ॥९३ ॥ पितुर्दाहज्वरोदन्ताघ्रातात् सप्तच्छदादिव । विधुरः प्रास्थित हरिर्दुःखं नातः परं सताम् ॥ ९४ ॥ १ नदी। * न्तौ च। ताववर्धताम् । २ यथा स्वेन निखातं समीपस्थं निधानं गृह्णाति तद्वत् । ३ वज्रलेपसदृशः । ४ निषिद्धः । ५ मात्रोः ।
282828282828282828282828284
पुरुषसिंहसुदर्शननिशुम्भचरितम्।
॥१४६॥