________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् ।
॥ १४४॥
8282828282828282828282828286
अभिषिक्तोऽमरैर्नागदत्ताख्यां शिबिकां विभुः । अधिरुह्य ययौ रम्यमुद्यानं वप्रकाञ्चनम् ॥५५॥ प्रियङ्गमञ्जरीपुञ्जमत्तगुञ्जदलिव्रजम् । पुन्नागोत्तंससंदर्भव्याकुलोद्यानपालिकम् ॥५६॥ पौराङ्गनामृज्यमानस्वमुखं रोध्ररेणुभिः । शोभितं पुष्पितैः कुन्दैः स्मरायुधगृहैरिव ॥५७॥ लवलीपुष्पलवनव्यग्रारामिकदारकम् । मुचुकुन्दमरन्दोदबिन्दुसार्द्रितभूतलम् ॥५८ ॥ बद्धो-कं मरकतैरिवोन्मरुचकं ततः । प्रविवेश तदुद्यानं शिशिरश्रीमयं प्रभुः ॥५९॥
॥चतुर्भिः कलापकम् ॥ माघशुक्लत्रयोदश्यां पुष्ये भे चापरेऽहनि । समं राजसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ॥६०॥ द्वितीयेऽह्नि सौमनसे धर्मसिंहनृपौकसि । चकार परमान्नेन पारणं परमेश्वरः ॥६१ ॥ दिव्यं समभवत् तत्र वसुधारादिपञ्चकम् । धर्मसिंहो व्यधाद् रत्नपीठं स्वामिपदावनौ ॥६२॥ निरपेक्षः शरीरेऽपि समीरण इवास्खलन् । ततः स्थानात् प्रववृते मां विहर्तुं जगद्गुरु ः॥६३॥ इतश्च जम्बूद्वीपेऽस्मिन् विदेहेष्वपरेषु च । राजा पुरुषवृषभोऽशोकायामभवत् पुरि ॥६४ ॥ सदा विरक्तः संसारात् तात्विकः सात्त्विकश्च सः । पर्यव्राजीत् पादमूले प्रजापालमहामुनेः ॥६५॥ दुस्तपं स तपस्तप्त्वा प्राप्ते काले विपद्य च । अष्टादशसमुद्रायुः सहस्रारे सुरोऽभवत् ॥६६॥
१प्रियङ्गलतायाः मञ्जरीणां पुञ्जे मत्तोऽत एव गुञ्जन्नलिव्रजो भ्रमरसमूहो यस्मिंस्तत् । २ पुन्नागपुष्पाणामलङ्कारग्रथने व्याकुला । उद्यानपालस्त्रियो यस्मिंस्तत् । ३ लवलीपुष्याणां लवने छेदने व्याकुला उद्यानपालबाला यस्मिंस्तत्। ४ मुचुकुन्दपुष्पाणां मकरन्दस्य जलबिन्दुभिराई भूतलं यस्य तत् । ५ उत्फुल्छा मरुचकवृक्षा यस्मिंस्तत् । ६ तन्नाम्नि नगरे । ७ तत्ववेत्ता।
28282828282828282828282828286
पुरुषसिंहवासुदेवसुदर्शनबलदेवनिशुम्भप्रतिवासुदेवचरितम्।
|॥१४४॥