________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४३
चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम्।
282828282828282828282828284
देवेभ्यो दानवेभ्योऽपि मान् मन्ये गरीयसः । त्रैलोक्यवन्द्यो यत्र त्वमुदभूस्तीर्थनायक ः ॥४१॥ अपाग्भरतवर्षेऽस्मिन् ममाद्यैवास्तु मर्त्यता । मोक्षसाधनसाधीयस्त्वच्छिष्यत्वजिघृक्षया ॥ ४२ ॥ नारकेभ्यो नाकसदां को भेदः सुखिनामपि । भवेद् येषां प्रमत्तानां न भवत्पाददर्शनम् ॥४३॥ विजृम्भितं तावदेव घूकैरिव कुतीथिकैः । न यावत् त्रिजगन्नाथ ! रवेरिव तवोदयः ॥ ४४ ॥ तव वर्षाम्बुदस्येव धर्मदेशनवारिणा । भरतार्धं सर इवाशेषं पूरिष्यतेऽचिरात् ॥ ४५ ॥ अनन्तान् देहिनो मुक्तिं प्रापयन् परमेश्वर ! । अरिदेशमिवो-शस्त्वं कर्ता भवमुद्वसम् ॥ ४६ ॥ त्वत्पादपद्मलीनेन षट्पदेनेव चेतसा । भगवन् ! कल्पवासेऽपि प्रयान्तु मम वासराः ॥ ४७ ॥ स्तुत्वेति स्वामिनं शक्रो गृहीत्वेशानवासवात् । नीत्वा च सुव्रतादेव्याः पार्श्वेऽमुञ्चद् यथास्थिति ॥ ४८ ॥ गर्भस्थेऽस्मिन् धर्मविधौ यन्मातुर्दोहदोऽभवत् । तेनास्य धर्म इत्याख्यामकार्षीद् भानुभूपतिः ॥४९॥ अत्यगाच्छैशवं स्वामी क्रीडन् सुरकुमारकैः । प्रापच्च यौवनं पञ्चचत्वारिंशद्धनूनतः ॥५०॥ चिरेप्सितं पूरयितुं पित्रोः कौतूहलं प्रभुः । भोग्यकर्माणि भोक्तुं च चक्रे दारपरिग्रहम् ॥ ५१॥ वर्षलक्षद्वये सार्धे जन्मतोऽतिगते सति । पर्यग्रहीद् राज्यभारं स्वामी पित्रनुरोधतः ॥५२॥ पञ्चलक्षाणि वर्षाणां शशास वसुधां विभुः । प्राप्तकालां तदा दीक्षां चिन्तयामास च स्वयम् ॥५३॥ तीर्थं प्रवर्तय स्वामिन्निति लोकान्तिकैः प्रभुः । विज्ञप्तो वार्षिकं दानं दीक्षाऽनांद्या मुखं ददौ ॥५४॥
१ मोक्षसाधने साधीयः श्रेष्ठं तव शिष्यत्वं तद् ग्रहीतुमिच्छया । २ देवानाम् । ३ शत्रुदेशं यथा राजा निर्जनं करोति तथैवायमपि संसारमुद्वसं नाशं करिष्यतीत्यर्थः ॥
282828282828282828282828282
नामकरणम्।
॥१४३॥