________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १३९ ॥
REDERERERY
CREDERE DEDY
त्रिंशद्वर्षलक्षायुर्विष्णुरत्युग्रकर्मभिः । तमः प्रभाख्यामगमत् षष्ठीं नरकमेदिनीम् ॥ ३०४ ॥ कौमारे ऽब्दसप्तशती मण्डलित्वे त्रयोदश । वर्षशतान्यथाशीतिर्वर्षाणि ककुभां जये ॥ ३०५ ॥ राज्येऽब्दानामथैकोनत्रिंशल्लक्षी सहस्त्रकाः । नवतिः सप्त च नवशती विंशतिरस्य तु ॥ ३०६ ॥ सुप्रभः पञ्चपञ्चाशद्वर्षलक्षायुरूच्चकैः । स्वभ्रातुरवसानेन दुःखितोऽस्थाच्चिरं भुवि ॥ ३०७ ॥ सोऽप्यथानुजविपत्तिविरक्त्याऽऽत्तव्रतो मुनिमृगाङ्कुशपार्श्वे । प्राप्य केवलमनन्तचतुष्की स्थानमापदंपुनर्भवरूपम् ॥ ३०८ ॥
इत्याचार्यश्री हेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीअनन्तस्वामि- पुरुषोत्तम - सुप्रभ- मधुचरितवर्णन नाम चतुर्थः सर्गः ।
CREDEREREDERERERGAGAGAGAGAG
चतुर्थं पर्व चतुर्थ: सर्गः
श्री अनन्तनाथजिनचरितम् ।
सुप्रभसिद्धिः ।
| ॥ १३९ ॥