________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १३८ ॥
FREDEREREREDEREREREREREREREI
तत्राप्यवरपौरुष्यां देशनाविरते सति । नत्वा प्रभुं ययुः स्वौकः शक्रोपेन्द्रबलादयः ॥ २९० ॥ ततः स्थानात् प्रभुरपि ग्रामा-ऽऽकर- पुरादिषु । प्रबोधयन् भव्यजन्तून् विजहार वसुन्धराम् ॥ २९९ ॥ षष्टिः षट् च सहस्राणि श्रमणानां महात्मनाम् । तथा चतुर्दशपूर्वभृतां नव शतानि च ॥ २९२ ॥ चतुःसहस्त्री त्रिशती चावधिज्ञानशालिनाम् । मनःपर्ययिणां पञ्च चत्वारिंशच्छतानि च ॥ २९३ ॥ तथा पञ्च सहस्राणि केवलज्ञानधारिणाम् । जातवैक्रियलब्धीनां सहस्त्राण्यष्टयोगिनाम् ॥ २९४ ॥ त्रिसहस्त्री शते द्वे च वादलब्धिमतां पुनः । आर्यिकाणां सहस्राणि द्वाषष्टिर्वीर्तपाप्मनाम् ॥ २९५ ॥ श्रावकाणां पुनर्लक्षद्वयं षष्टिः शतानि च । श्राविकाणां चतुर्लक्षी चतुर्दशसहस्त्र्यपि ॥ २९६ ॥ त्र्यब्दोनान्यब्दलक्षाणि सप्त सार्धानि केवलात् । महीं विहरमाणस्य परिवारोऽभवत् प्रभोः ॥ २९७ ॥ स्वं मोक्षकालं ज्ञात्वा तु संमेताद्रिमगात् प्रभुः । साधुसप्तसहस्त्र्या च सहानशनमाददे ॥ २९८ ॥ मासान्ते चैत्रविशदपञ्चम्यां पौष्णगे विधौ । समं तैर्मुनिभिर्मोक्षं प्रपेदे ऽनन्तजित् प्रभुः ॥ २९९ ॥ स्वामिन: स्वामिशिष्याणां तेषां चाभ्येत्य वासवाः । सामराश्चक्रिरे तत्र निर्वाणमहिमोत्सवम् ॥ ३०० ॥ कौमारे सप्त लक्षाणि सार्धानि शरदामय । पृथिवीपालने वर्षलक्षाणि दश पञ्च च ॥ ३०९ ॥ अर्धाष्टमावर्षलक्षाः प्रव्रज्यापरिपालने । इति त्रिंशद्वर्षलक्षाण्यनन्तजित आयुषि ॥ ३०२ ॥ विमलस्वामिनिर्वाणादनन्तस्वामिनिर्वृतिः । व्यतिक्रान्तेषु नवसु वारिराशिष्वजायत ॥ ३०३ ॥ १ स्वस्वस्थानम् । २ नष्टपापानाम् । ३ विशद:- शुक्लः । ४ सार्धसप्तलक्षाः । ५ सागरोपमेषु ।
KREDERERERERERERERERERERERGI
चतुर्थं पर्व चतुर्थः सर्गः
श्रीअनन्तनाथजिनचरितम् ।
श्री अनन्त
नाथ जिनस्य परिवारादिः ।
श्री अनन्तजिनस्य
निर्वाणम् ।
॥ १३८ ॥