________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १४० ॥
XD XD XD XD XD Y
DEDEDED X D X D
पञ्चमः सर्गः । श्रीधर्मनाथ पुरुषसिंह- सुदर्शन - निशुम्भचरितम् ।
1
धर्मगङ्गाहिमवतः कुंतीर्थध्वान्तभास्वतः । श्रीमतो धर्मनाथस्य चरणौ शरणं श्रये ॥ १ ॥ तस्यैव तीर्थनाथस्य चरित्रमिदमुच्यते । संसारसिन्धुतरणे सेतुबन्धवदायतम् ॥ २ ॥ धातकीखण्डद्वीपे प्राग्विदेहे भरताभिधे । विजये भद्रिलपुरं नाम्नाऽस्ति विपुलं पुरम् ॥ ३ ॥ तस्मिन् दृढरथो नाम महीपरिवृढोऽभवत् । दोर्भ्यां दृढाभ्यां भ्राजिष्णुर्दन्ताभ्यामिव कुञ्जरः ॥ ४ ॥ तेजांसि जग्रसे राज्ञां ज्योतिषामिव भास्करः । तद्दण्डानां भाजनं च सोऽभ्मोधिः सरितामिव ॥ ५ ॥ स महत्यपि साम्राज्ये नोत्सेकं जातुचिद् दधौ । विवेकी तूलतरलां जानन्नैन्द्रीमपि श्रियम् ॥ ६ ॥ तत्तद्वैषयिकं सौख्यमाप्नुवन्नपि सोऽकरोत् । आगन्तुरिव संसारवासे नास्थां मनागपि ॥ ७ ॥ भोगेषूद्यतवैराग्यः स्वशरीरेऽपि निःस्पृहः । स राज्यं प्राज्यमप्यौज्झच्छरीरमललीलया ॥ ८ ॥ संसारिकमहादुःखरोगैकभिषजस्ततः । ययौ स राजा विमलवाहनस्यान्तिकं गुरो : ॥ ९ ॥ तस्मादुपाददे रुच्या वेतनेनेव दुर्लभम् । चारित्ररत्नममलं स नृरत्नशिरोमणिः ॥ १० ॥ योगस्य मातरमिव समतामेव धारयन् । परीषहान् सहमानः स तेपे दुस्तपं तपः ॥ ११ ॥ आचान्तैः श्रुतगण्डूषैः पुण्यैस्तीर्थोदकैरिव । अपावयत् स आत्मानं विषयम्लेच्छदूषितम् ॥ १२ ॥
१. कुतीर्थमिव ध्वान्तं तस्मिन् सूर्यसदृशस्य । २ विस्तृतम् । ३ महीपालः राजा इत्यर्थ । ४ तेषां राज्ञां दण्डानाम् । ५ गर्वम् । ६ तुलवच्चञ्चलाम् । ७ अतिथिवत् । ८ मूल्येन । ९ पीतैः श्रुताण्येव गण्डूषालुकास्तै : ।
CREDERERERERERERERERERERERER
चतुर्थं पर्व
पञ्चमः सर्गः श्राधर्म
नाथजिनचरितम् ।
पूर्वभवः ।
। ।। १४० ॥