________________
चतुर्थं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१३३॥
सर्गः
द्वीन्द्रियाः कृमयः शङ्खा गण्डूपर्दा जलौकसः । कपर्दाः शुक्तिकाद्याश्च विविधाः कृमयो मताः ॥२३४॥ यूका-मत्कुण-मत्कोट-लिक्षाद्यास्त्रीन्द्रिया मताः । पतङ्ग-मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः ॥२३५ ॥ तिर्यग्योनिभवाः शेषा जल-स्थल-खचारिणः । नारका मानवा देवाः सर्वे पञ्चेन्द्रिया मताः ॥२३६ ॥ मनो-भाषा-कायबलत्रयमिन्द्रियपञ्चकम् । आयुरुच्छासनिःश्वासमिति प्राणा दश स्मृताः ॥ २३७ ॥ सर्वजीवेषु देहायुरुच्छवासा इन्द्रियाणि च । विकलासंज्ञिनां भाषा पूर्णानां संज्ञिनां मनः ॥ २३८ ॥ उपपाद(त)भवा देव-नारका गर्भजाः पुनः । जरायुःपोताण्डभवाः शेषाः संमूर्च्छनोद्भवाः ॥२३९ ॥ संमूर्छिनो नारकाश्च जीवाः पापा नपुंसकाः । देवाः स्त्रीपुंसवेदाः स्युर्वेदत्रयजुषः परे ॥ २४०॥ सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मनिगोदा एवान्त्यास्तेभ्योऽन्ये व्यवहारिणः ॥ २४१ ॥ सचित्तः संवृतः शीतस्तदन्यो मिश्रितोऽपि वा । विभेदैरान्तभिन्नो नवधा योनिरङ्गिनाम् ॥२४२ ॥ प्रत्येकं सप्त लक्षाश्च पृथ्वी-वार्यग्नि-वायुषु । प्रत्येकानन्तकायेषु क्रमाद् दश चतुर्दश ॥ २४३ ॥
श्रीअनन्तनाथजिनचरितम् ।
28282828282828282828282828A
88888888888888888888888888
देशना।
१ भूम्यन्तर्गतजन्तुविशेषा, 'गंडोळां' भाषायाम् । २ युका-मत्कुण-मत्कोट-लिक्षाद्या:-भाषायाम्- 'जू','मांकड','बगइ','लीख'।३ यथा द्वीन्द्रियाणां कायाऽऽयुरुच्छ्वासाः स्पर्शच-रसनेन्द्रियद्वयं भाषा चेति षट् प्राणस्तथैव त्रीन्द्रियाणां चतुरिन्द्रिया- णामसंज्ञिपञ्चेन्द्रियाणां च क्रमात् स्वस्वेन्द्रियवृद्ध्या सप्ताष्टौ नव च प्राणा: संज्ञिनां तु मन:सहिता दशेति तात्पर्यम् । ४ ये जीवा जरायुःपोताण्डभवास्ते गर्भजाः कथ्यन्ते । ५ गर्भजा: प्राणिनः । ६ ये सूक्ष्मनिगोदास्तेऽव्यवहारिणः । ७ सचित्तादन्योऽचित्तः, संवृतविवृतादन्यो विवृतः, शीतादन्य उष्णः । ८ सचित्ताचित्तः शीतोष्ण इत्यर्थः । ९ प्रत्येक्वनस्पतिकायेषु दशलक्षा, अनन्तकायेषु-साधारणवनस्पतिकायेषु चतुर्दशलक्षाः ॥
॥१३३॥