________________
चतुर्थं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते
सर्गः श्रीअनन्तनाथजिनचरितम् ।
॥१३२॥
282828282828282828282828288
विषयैः कषायरागद्वेषमोहैरनिर्जिताः । भूयास्म त्वत्प्रसादेन प्रसीद परमेश्वर ! ॥ २२० ॥ स्तुत्वैवं कृतमौनेषु शक्रमध्वरिसीरिषु । अनन्तनाथो भगवान् विदधे देशनामिति ॥ २२१ ॥ अतत्त्वविदुरो जन्तुरमार्गज्ञ इवाध्वगः । अस्मिन् संसारकान्तारे बम्भ्रमीति दुरुत्तरे ॥२२२॥ जीवाजीवावाश्रवश्च संवरो निर्जरा तथा । बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुर्मनीषिणः ॥ २२३ ॥ तत्र जीवा द्विधा ज्ञेया मुक्तसंसारिभेदतः । अनादिनिधनाः सर्वे ज्ञान-दर्शनलक्षणाः ॥२२४ ॥ मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥ २२५ ॥ संसारिणो द्विधा जीवाः स्थावर-त्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्ता-ऽपर्याप्तविशेषतः ॥ २२६ ॥ पर्याप्तयस्तु षडिमाः पर्याप्तत्वनिबन्धनम् । आहारो वपुरक्षाणि प्राणो भाषा मनोऽपि च ॥ २२७ ॥ स्युरेकाक्ष-विकलाक्ष-पञ्चाक्षाणां शरीरिणाम् । चतस्त्रः पञ्च षट् चापि पर्याप्तयो यथाक्रमम् ॥ २२८ ॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि ॥ २२९ ॥ प्रत्येकाः साधारणाश्च द्विप्रकारा महीरुहः । तेऽत्र पूर्वे बादराः स्युरुत्तरे सूक्ष्म-बादराः ॥ २३०॥ त्रसा द्वित्रिचतुःपञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा संज्ञिनोऽसंज्ञिनोऽपि च ॥ २३१॥ शिक्षोपदेशालापान् ये जानते तेऽत्र संज्ञिनः । संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः ॥२३२॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः॥२३३ ॥
१ अतत्त्वज्ञः । २ स्थावराः त्रसाश्चेति । ३ इन्द्रियाणि । ४ एकेन्द्रियाणां चतस्रः, विकलेन्द्रियाणां पञ्च, पञ्चेन्द्रियाणां षट् पर्याप्तयः क्रमशः । ५ प्रत्येका बादरा एव । ६ साधारणा : । ७ प्रवृत्तिमन्तो मन:-प्राणा येषां से। ८ विषय :।
282828282828282828282828282
श्रीअनन्तनाथजिनस्य धर्मदेशना।
३२॥