________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १३४ ॥
REDEREREREDERERERERERERER!
षट् पुनर्विकलाक्षेषु मनुष्येषु चतुर्दश । स्युश्चतस्त्रश्चतस्त्रश्च श्वभ्रि-तिर्यक्-सुरेषु तु ॥ २४४ ॥ एवं लक्षाणि योनीनामशीतिश्चतुरुत्तरा । केवलज्ञानदृष्टानि सर्वेषामपि जन्मिनाम् ॥ २४५ ॥ एकाक्षा बादराः सूक्ष्माः पञ्चाक्षाः संज्ञ्यसंज्ञिनः । स्युर्द्वि-त्रि- चतुरक्षाश्च पर्याप्ता इतरेऽपि च ॥ २४६ ॥ एतानि जीवस्थानानि मयोक्तानि चतुर्दश । मार्गणा अपि तावत्यो ज्ञेयास्ता नामतो यथा ॥ २४७ ॥ गतीन्द्रिय-काय-योग-वेद-ज्ञान- क्रुधादयः । संयमा-ऽऽहार - हग्- लेश्या-भव्य- सम्यक्त्व-संज्ञिनः ॥ २४८ ॥ मिथ्यादृष्टिः सास्वादन - संम्यग्मिथ्यादृशावपि । अविरतसम्यग्दृष्टिर्विरंताविरतोऽपि च ॥ २४९ ॥ प्रमत्तश्चाप्रमत्तश्च निवृत्तिबादरस्ततः । अनिवृत्तिबादरश्चाथ सूक्ष्मसंपरायकः ॥ २५० ॥
ततः प्रशान्तमोहश्च क्षीणमोहश्च योगंवान् । अयोगवानिति गुणस्थानानि स्युश्चतुर्दश ॥ २५१ ॥ मिथ्यादृष्टिर्भवेन्मिथ्यादर्शनस्योदये सति । गुणस्थानत्वमेतस्य भद्रकत्वाद्यपेक्षया ॥ २५२ ॥ मिथ्यात्वस्यानुदयेऽनन्तानुबन्ध्युदये सति । सास्वादनसम्यग्दृष्टि : स्यादुत्कर्षात् षडावलीः ॥ २५३ ॥ सम्यक्त्वमिथ्यात्वयोगान्मुहूर्तं मिश्रदर्शनः । अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये ॥ २५४ ॥
१ नारक-तिर्यक्-देवेषु । २ बादरेकेन्द्रियाः सूक्ष्मैकेन्द्रियाः, संज्ञिपञ्चेन्द्रियाः, असंज्ञिपञ्चेन्द्रियाः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाश्चेति सप्त पर्याप्तास्तथैवापर्याप्ताश्चेति चतुर्दश जीवस्थानानि । ३ चतुर्दश । ४ क्रोधादयः कषायाः । ५ सम्यग्मिथ्यादृग् इत्यस्य मिश्रगुणस्थानमित्यपि नामान्तरम् । ६ देशविरतिगुणस्थानम् । ७ अपूर्वकरणगुणस्थानमित्यप्यस्य नामान्तरम् । ८ उपशान्तमोहः इति नाम्ना प्रसिद्धिः । ९ सयोगिकेवली
'REDERERERERERERERERERERERE
चतुर्थं पर्व चतुर्थः सर्गः
श्रीअनन्तनाथजिनचरितम् ।
देशना ।
॥ १३४ ॥