________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १२९ ॥
GAGAGAGAGAGAGAGAGRERERERURY
को नाम मे बलोत्कर्षस्त्वयि बाले निबर्हिते । किं रम्भोन्मूलने स्थामवर्णनं वरदन्तिनः ॥ १७८ ॥ एषोऽपि सुभटम्मन्यस्तव ज्यायान् ममाग्रतः । लघीयान् कुञ्जर इव महानपि गिरेः पुरः ॥ १७९ ॥ व्याजहार प्रतिहरिं हरिरप्युल्लसत्स्मितः । तमांसि हन्ति प्रौढानि बालोऽपि हि दिवाकरः ॥ १८० ॥ अग्निः स्फुलिङ्गमात्रोऽपि कक्षं दहति सर्वतः । तेजः प्रमाणं वीराणां तेजसां कीदृशं वयः ! ॥ १८१ ॥ ॥ युग्मम् ॥
तदलं ते विलम्बेन मुञ्च चक्रमशङ्कितः । व्यालोऽपि गैरलं मुक्त्वा शाम्येन्न पुनरन्यथा ॥ १८२ ॥ अङ्गुल्यामूर्मिकीकृत्य सलीलं मधुरप्यथ । भ्रमयामास तच्चक्रमेलातमिव बालकः ॥ १८३ ॥ मुमोच च मधुश्चक्रं तत् पपाताथ शार्ङ्गिणः । वक्षस्तुम्बाग्रघातेन चुम्बदुल्बणतेजसा ॥ १८४ ॥ विष्णुस्तेन प्रहारेण मूच्छितः स्यन्दनेऽपतत् । उत्प्लुत्य बलभद्रेण स्वोत्सङ्गे च न्यधीयत ॥ १८५ ॥ भ्रात्रङ्गसंगादमृतस्नपनादिव केशवः । अवाप्तसंज्ञस्तच्चक्रं मधोः प्राणानिवाददे ॥ ९८६ ॥
अथ शार्ङ्गधरोऽप्येवमूचे मद्वत् त्वमत्र भोः ! । मा स्म स्था गच्छ गच्छाशु स्पर्धा सिंहने का शुनः ? ॥ १८७ ॥ मधुरप्यभ्यधत्तैवं मुञ्च चक्रं त्वमप्यहो ! । गर्जन् शरन्मेघ इव किमात्मानं विकत्थसे ॥ १८८ ॥ एवमुक्तवतस्तस्य चक्रं मुक्त्वा जनार्दनः । अपातयच्छिरो भूमौ फलं तालतरोरिव ॥ १८९ ॥ पुष्पवर्षैः सुरैः शार्ङ्ग साधु साध्विति तुष्टुवे । हा नाथ ! नाथ ! क्वासीति निजैस्तु शुशुचे मधुः ॥ १९० ॥ जघ्ने केशवसेनान्या कैटभोऽपि महाभटः । शिश्रिये चापरैः सद्यः श्रीपतिर्मधुपार्थिवैः ॥ १९९ ॥
१ नाशिते । २ रम्भा कदली । ३ तृणम् । ४ विषम् । ५ उल्काम् । ६ प्रगल्भसे ।
FREREREREREREREREREDERERKAY
चतुर्थं पर्व चतुर्थः सर्गः
श्रीअनन्तनाथजिनचरितम् ।
पुरुषोत्तम
सुप्रभ- मधुचरितम् ।
॥ १२९ ॥