________________
त्रिषष्टि
शलाकापुरुषचरिते
चतुर्थं पर्व चतुर्थः
सर्गः श्रीअनन्तनाथजिनचरितम् ।
॥१२८॥
028282828282828282828282828
प्रेर्यमाणा महामात्रैरपसृत्याभिसृत्य च । चतुर्दन्तेन युद्धेनायुध्यन्त वरदन्तिनः ॥ १६४ ॥ एकस्मिन् मोचके कुन्तमन्यस्मिन् मुद्गरं पुनः । पाणौ कृपाणं बिभ्राणाः सादिनोऽत्वरयन् हयान् ॥१६५ ॥ निर्घोषेणातिघोरेण जगद्वाधिर्यदायिनः । भिन्नसिन्धुतटानीव मिमिलुः स्यन्दना मिथः ॥१६६॥ आस्फालयन्तः फलकान्यास्फलन्तः परस्परम् । अस्यसि विदधुर्वीराः पत्तयो बाहुशालिन : ॥१६७ ॥ अभञ्जि मधुसैन्येन विष्णुसैन्यं क्षणादपि । द्रुमखण्ड प्रचण्डेनौत्पातिकेनेव वायुना ॥१६८ ॥ रथिना बलभद्रेणान्वीयमानो रथी हरिः । अपूरयत् पाञ्चजन्यमजन्यमिव विद्विषाम् ॥१६९ ॥ पाञ्चजन्यस्य नादेन तत्कालं मधुसैनिकाः । त्रेसुः केऽपि मुमूर्छः केऽप्यपतन् केऽपि भूतले ॥१७० ॥ इत्थं विधुरमालोक्य सैन्यं मधुरपि स्वयम् । धनुरास्फालयन् स्फारमाह्वास्त पुरुषोत्तमम् ॥१७१ ॥ अधिज्यीकृत्य तरसा शार्ङ्ग शायप्यवादयत् । रोदसी वादयदिव गरीयस्या प्रतिश्रुता ॥ १७२ ॥ कर्षकर्ष निषङ्गात् ताविषून् मुमुचतुः शितान् । अन्योऽन्यं मृत्यवे सर्पानिव वार्तिकवादिनौ ॥१७३ ॥ जयलक्ष्म्या इव प्राणान् बाणान् बाणैरुभावपि । व्यवच्छेदकलाच्छेको चिच्छेदाते परस्परम् ॥ १७४ ॥ एवमस्त्रान्तरैरस्त्रान्तराण्यपि मिथस्तयोः । रज्जुकर्तमकृत्यन्त रणो ह्येवं समौजसाम् ॥ १७५ ॥ अन्योऽन्यसाम्यकुपितो दिदर्शयिषुरन्तरम् । चक्रं सस्मार च मधुस्तत्पाणौ तत् पपात च ॥ १७६ ॥ जिघांसुरप्यभिदधे मधुर्विस्फुरिताधरः । भो ! याहि याहि किं बाल्याद् व्याघ्रीदन्तान् दिदृक्षसि ॥१७७॥
१ हस्तिपकै : 'महावत' भाषायाम् । २ अश्ववाराः । ३ असिभिरसिभिर्गृहीत्वा प्रवृत्तमिदं युद्धम् । ४ उत्पातसंबन्धिना। ५ उत्पातमिव । ६ प्रतिध्वनिना। ७ वा कृष्ट्वा। ८ विषवैद्यवादिनौ। ९ छेकी-कुशलौ ।
828282828282828282828282828
पुरुषोत्तमसुप्रभ-मधुचरितम्।
॥ १२८॥