________________
चतुर्थं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१३०॥
सर्गः श्रीअनन्तनाथजिनचरितम् ।
28888888888888888888888888
समागधवरदामप्रभासाधीश्वरं ततः । अपाग्भरतवर्षार्धं साधयामास शाईभृत् ॥१९२॥ शिलां कोटिनरोत्पाट्यां मगधेष्वथ माधवः । उत्पाट्य लीलयाऽऽनन्दी पिधानमिव सोऽमुचत् ॥१९३ ॥ समुद्रेणापि दत्तार्घ इवोत्कलोलपाणिना । अथाययौ द्वारवती स्वपुरी पुरुषोत्तमः ॥१९४ ॥ तत्र सोमेन रामेण पार्थिवैरपरैरपि । विष्णोश्वक्रेऽर्धचक्रित्वाभिषेकः परया मुदा ॥१९५॥ इतस्त्रिवर्षी छद्मस्थो विहृत्याऽनन्तजिज्जिनः । समाययावुपवनं सहस्राम्रवणाभिधम् ॥१९६ ॥ तत्राशोकतले भर्तुानान्तरविवर्तिनः । संसारस्येव मर्माणि घातिकर्माणि तुत्रुटु : ॥१९७॥ राधकृष्णचतुर्दश्यां रेवतीस्थे निशाकरे । षष्ठेन तपसा भर्तुरुदपद्यत केवलम् ॥ १९८ ॥ चक्रे च दिव्ये समवसरणे देशनां प्रभुः । पञ्चाशतं गणधरान् यशःप्रभृतिकानपि ॥१९९ ॥ तत्तीर्थभूश्च पातालस्त्रयास्यो मकरवाहनः । रक्तो दोभिः पद्मखङ्गपाशिभिर्दक्षिणैस्त्रिभिः ॥ २०० ॥ वामैनकुलफलकाक्षसूत्रसहितैः पुनः । श्रीमतोऽनन्तनाथस्य जज्ञे शासनदेवता ॥ २०१ ॥ तथोत्पन्नाङ्कशा नाम गौराङ्गी पद्मवाहना । दोर्दण्डाभ्यां दक्षिणाभ्यां खङ्गं पाशं च बिभ्रती ॥ २०२॥ दक्षिणेतरबाहुभ्यां दधती फलकाङ्कशौ । अनन्तस्वामिनो जज्ञे तथा शासनदेवता ॥ २०३ ॥ ताभ्यामुपासिताभ्यो भगवान् विहरन् भुवि । प्रापत् पुरीं द्वारवती मोक्षद्वाराग्रगूः प्रभुः ॥ २०४ ॥ शक्राद्यैस्तत्र समवसरणं विदधेऽमरैः । षट्कार्मुकशतोत्तुङ्गचैत्यपादपभूषितम् ॥ २०५ ॥ तत्र द्वारेण पूर्वेण प्रविश्यानन्तजिज्जिनः । त्रिः प्रदक्षिणयामास तमुच्चैश्चैत्यपादपम् ॥ २०६॥
१ आच्छादनम्। २ त्रिमुखः । ३ अग्रगू:- अग्रेसरः ।
282828282828282828282828286
पुरुषोत्तमसुप्रभ-मधुचरितम्।
॥१३०॥