________________
चतुर्थं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१२५ ॥
सर्गः श्रीअनन्तनाथजिनचरितम्।
282828282828282828282828282:
मन्यसे यं बलीयांसं तमाख्याहि यथा क्षणात् । शरभः कलभस्येव तस्यौजो दर्शयामि ते ॥१२६ ॥ किंमत्तेन प्रमत्तेनाप्यवज्ञातोऽसि केनचित् । स्तुतिव्याजेन यस्याद्य विधित्ससि वधं द्विज ! ॥१२७ ॥ अथोचे नारदोऽप्येवं नाहं मत्तप्रमत्तयोः । गच्छामि पार्थं तन्मे स्यात् तदवज्ञा कथं ननु ! ॥१२८ ॥ भरतार्धेश्वरोऽस्मीति निजायामद्य पर्षदि । यदवादीस्मि वादी यस्तद्धि हसाय ते ॥१२९ ॥ द्वारकायां तु सोमस्य सुप्रभः पुरुषोत्तमः । तनयौ किं त्वया राजन् ! जनश्रुत्याऽपि न श्रुतौ ? ॥१३०॥ महाबलौ महाबाहू अन्योऽन्यं प्रीतिशालिनौ । मूर्तिमन्तौ पवमान-ज्वलनाविव दुःसहौ ॥१३१॥ शक्रेशानाविव दिवोऽवतीर्णी कौतुकादिह । दोष्णैकेनाप्युद्धरेतां तौ सवार्धिधरां धराम् ॥१३२॥ भरतेऽधिष्ठिते ताभ्यां सिंहेनेव महावने । अज्ञानाद् गर्जसि कथं मदान्ध इव सिन्धुर : ॥१३३ ॥ कोपारुणेक्षणद्वन्द्वो द्वन्द्वेच्छुरिव तत्क्षणात् । दशनैर्दशनान् घर्षन्मधुराजोऽभ्यधादिदम् ॥१३४ ॥ यदात्थ तदमिथ्या चेत् स्वैरं तत् क्रीडितुं यमः । मया निमन्त्र्यतेऽद्यैष रणं द्रष्टुं भवानिव ॥१३५ ॥ निःसोमं निःसुप्रभं च तथा नि:पुरुषोत्तमम् । करोमि द्वारकाराज्यं पश्य युत्प्रतिभूरिव ॥१३६ ॥ इत्युक्त्वा नारदमुनि विसृज्य प्राहिणोदथ । अनुशिष्य रहो दूतं सोमसोमसुतान् प्रति ॥ १३७॥ गत्वाऽऽशु सोमं ससुतं सौजस्कः सोऽभ्यभाषत । ओजायन्तेऽनोजसोऽपि दूताः स्वाम्योजसा खलु ॥१३८ ॥
2828282828282URURLAUACRARUA
पुरुषोत्तमसुप्रभ-मधुचरितम्।
|॥१२५ ॥
१ गजपोतस्य । २ विधातुं कर्तुमिच्छसि । ३ हास्याय भवति । ४ समुद्र -गिरिसहितां महीम् । ५ गजः । ६ युद्धेच्छुः। ७ युद्धसाक्षी।