________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १२४ ॥
DEDEDEDEDEDEDEREREREREDERY
निमित्तीकृत्य चाचार्यं सर्वा जगृहतुः कलाः । पूर्वजन्मप्रभावोऽयं तादृशां हि महात्मनाम् ॥ ११२ ॥ क्रीडाघातमपि तयोर्नासहन्तापरे भटाः । स्पृशन्नपि गजो हन्ति जिघ्रन्नपि च पन्नगः ॥ ११३ ॥ लीलावनमिव श्रीणां तौ क्रमेणाङ्गपावनम् । यौवनं च प्रपेदाते बलेन पवनोपमौ ॥ ११४ ॥ ज्यायसो लाङ्गलादीनि शाडर्गादीनि कनीयसः । जैत्राणि ददिरे देवै रत्नानि नररत्नयोः ॥ ११५ ॥ महाबलौ बल-हरी तौ दृष्ट्वा कलिकौतुकी । प्रतिविष्णोर्मधोर्धाम जगामोत्पत्य नारदः ॥ ११६ ॥ तं दत्तीर्घो नमस्कृत्य कृत्यज्ञोऽभिदधे मधुः । महामुने ! स्वागतं ते दिष्ट्या दृष्टिपथेऽसि नः ॥ ११७ ॥ मदीयाः किङ्कराः सर्वे भरतार्थेऽत्र भूभुजः । ते मागधवरदामप्रभासेशाश्च नाकिनः ॥ ११८ ॥ तत्र वस्तुना येन येन देशेन वा तव । योऽर्थस्तं ब्रूहि निःशङ्कं यथा यच्छामि नारद ! । ११९ ॥ नारदोऽप्यब्रवीदेवं क्रीडयाऽहमिहागमम् । न मेऽर्थोऽर्थेन केनापि न वा देशेन केनचित् ? ॥ १२० ॥ भतार्थे ! इति तु त्वं मुधैव विकत्थ्यसे । बन्द्यर्थवादः सर्वोऽपि किं यथार्थी भवेत् क्वचित् ॥ १२१ ॥ अर्थलोभादर्थिजनैः स्तूयमानेन धीमता । लज्जितव्यं प्रत्युतापि प्रत्येतव्यं न जातुचित् ॥ १२२ ॥ बलिभ्योऽपि बलितमा महद्धयोऽपि महत्तमाः । दृश्यन्ते ह्यत्र जगति बहुरत्ना वसुन्धरा ॥ १२३ ॥ मधुरन्तर्भवत्कोपो ऽन्तः शिखीव शमीतरुः । सद्यो दष्टाधररदो नारदं प्रत्यभाषत ॥ १२४ ॥ भरतार्थेऽत्र गङ्गातः का नाम महती नदी । वैताढ्यात् को महानद्रिः कश्च मत्तो बलाधिकः ? ॥ १२५ ॥ क्रीडारूपमाघातमपि । १ अर्घः पूजाविधिः । २ बन्दिजनैर्गीयमानोऽर्थवादः स्तुतिपाठः । ३ अन्तर्मध्ये शिखी वह्निर्यस्य सः ।
REDEREREREREREREREREREDERY!
चतुर्थं पर्व चतुर्थः सर्गः
श्रीअनन्तनाथजिनचरितम् ।
पुरुषोत्तम
सुप्रभ-मधुचरितम् ।
॥ १२४ ॥