________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १२३ ॥
CREDEREREREDERERGAGAGAGAGAG
जित्वा भरतवर्षार्धं त्रिखण्डं ग्रामलीलया । स एवमसमस्थामा नामेन्दौ स्वमलीलिखत् ॥ ९८ ॥ चक्राक्रान्तद्विषच्चक्रः शक्रतुल्यश्च विक्रमात् । अभूत् प्रत्यर्धचक्री स चतुर्थः पुरुषार्यमा ॥ ९९ ॥ अभूदुत्कटदोःकूटकुट्टितारिभटोद्भटः । वैरिश्रीभोगलटभः कैटभः सोदरोऽस्य तु ॥ १०० ॥ तदा च द्वारकापुर्यां सोमसूर्यसमो गुणैः । सोम इत्याख्यया ख्यातो बभूव पृथिवीपतिः ॥ १०१ ॥ तस्याभूतामुभे पल्यौ तत्रैका स्निग्धदर्शना । सुदर्शनाऽन्या तु सीता शीतद्युतिसमानना ॥ १०२ ॥ इतश्च स सहस्त्रारान्महाबलवर : सुरः । च्युत्वा सुदर्शनादेव्या उदरे समवातरत् ॥ १०३ ॥
तदा सुदर्शनादेवी सीरभृज्जन्मसूचकान् । चतुरो यामिनीशेषे महास्वप्नानुदैक्षत ॥ १०४ ॥ ततो मासेषु नवसु दिनेष्वर्धाष्टमेषु च । देवी सुदर्शना सूत सुतं सितरुचिप्रभम् ॥ १०५ ॥ कृतार्थयन्नर्थिवर्गानुत्सवेन महीयसा । तस्य सुप्रभ इत्याख्यां विदधे सोमभूपतिः ॥ १०६ ॥ सहस्त्राराद् दिवश्च्युत्वा पूर्णायुः सोऽपि कालतः । जीवः समुद्रदत्तस्य सीताकुक्षाववातरत् ॥ १०७ ॥ तदा साऽपि महास्वप्नाञ्च्छार्ङ्गभृज्जन्मसूचकान् । सप्त सुप्ता निशाशेषेऽद्राक्षीत् प्रविशतो मुखे ॥ १०८ ॥ संपूर्ण समये साऽपि नीलरत्नामलत्विषम् । तनयं जनयामास सर्वलक्षणलक्षितम् ॥ १०९ ॥ शार्ङ्गपाणेश्चतुर्थस्य तस्याथ दिवसे शुभे । पुरुषोत्तम इत्याख्यां यथार्थामकरोत् पिता ॥ ११० ॥ नीलपीताम्बरौ तालतार्क्ष्यकेतू महाभुजौ । तावभातां सहचरौ प्रीत्या युग्मभवाविव ॥ १११ ॥
• १ चन्द्रे स्वं नामालिखत् अर्थात् तस्य चन्द्रलोकपर्यन्ता कीर्तिः प्रासरत् । २ चक्रम् - समूह: । ३ अर्यमा सूर्यः । ४ लटभ:- रम्यः, 'लडह' इति देश्यशब्दात् संस्कृतम् ।
FREREREREREREREREREDERERERE
चतुर्थं पर्व चतुर्थः सर्गः
श्रीअनन्तनाथजिनचरितम् ।
पुरुषोत्तम
सुप्रभ-मधुचरितम् ।
॥ १२३ ॥