________________
चतुर्थं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते
सर्गः
॥१२२॥
श्रीअनन्तनाथजिनचरितम् ।
28282828282828282828282828
तांस्ताननुदिनं नन्दाप्राप्त्युपायान् विचिन्तयन् । कञ्चित् कालं व्यतीयाय मित्रव्याजेन स द्विषन् ॥८६॥ समुद्रदत्ते विश्वस्ते स नन्दामपरेऽहनि । हृत्वा जगाम शकुनिरिव रत्नावली द्रुतम् ॥ ८७ ॥ रक्षसेव हृतां तेन बलिना छलिना च ताम् । प्रत्याहर्तुं सोऽसमर्थो वैराग्यं परमं ययौ ॥८८ ॥ हृदयस्थेन शल्येनेवापमानेन तेन स : । दूयमानोऽग्रहीन दीक्षां श्रेयांसमुनिसंनिधौ ॥८९॥ अत्युग्रं स तपस्तेपे तपसोऽस्य फलेन तु । नन्दाहर्तुर्वधाय स्यां निदानमिति चाकरोत् ॥९० ॥ अमुना स निदानेन मितीकृत्य तपःफलम् । विपद्य कालयोगेन सहस्रारेऽभवत् सुरः ॥९१॥ मृत्वा कालक्रमाच्चण्डशासनोऽपि महीपतिः । भवाब्ध्यावर्तभूतासु बभ्रामानेकयोनिषु ॥९२ ॥ स चात्र भरते पृथ्वीपुरे विलासभूपतेः । गुणवत्यां कलत्रेऽभून्मधुरित्याख्यया सुतः ॥ ९३ ॥ स त्रिंशद्वर्षलक्षायुस्तापिच्छकुसुमच्छविः । पञ्चाशद्धनुरुत्तुङ्गो जङ्गमोऽद्रिरिवाबभौ ॥९४ ॥ शुशुभे स महाबाहुर्द्विशुण्ड इव दिग्गजः । पृथुलोरस्तटश्रीकः सानुमानिव जङ्गमः ॥ ९५ ॥ . लीलयाऽपि महास्थाम्नस्तस्य चङ्कमतो मही । भारासहा ननामेव तृणपूर्ण इवावटः ॥ ९६ ॥ शस्त्राशस्त्रिकथां श्रुत्वा पूर्वेषां पृथिवीभुजाम् । स शुशोच स्वदोर्वीर्यं प्रतिमल्लमवाप्नुवन् ॥९७ ॥
R&RURURURU282828RCRURXAUR
पुरुषोत्तमसुप्रभ-मधुचरितम्।
१ नियाय । २ यथानिमित्तमुद्दिश्य तथा संकल्पकरणम्, भाषायाम् 'नियाj'। ३ अमितं तपसः फलम्, परं तन्मितं परिमाणयुक्तं लघु कृत्वा । ४ आवर्त्तः परिवर्तनम् । ५ तापिच्छ:-तापिञ्छः "तापिञ्छस्तु तमाल: स्यात्"[अभि०चि०का० ४ श्लो० २१२] ।६ पर्वतः। ७ महाबलवतः । ८ गर्ता ।
॥१२२॥