________________
चतुर्थं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१२१॥
सर्गः |श्रीअनन्तनाथजिनचरितम् ।
282828282828282828282828282
समुद्रदत्त इत्यासीद् दत्तमुद्रोऽरितेजसाम् । समुद्र इव गम्भीरस्तस्यां वसुमतीपतिः ॥७५ ॥ पत्नी तस्याभवन्नन्दा नयनानन्दचन्द्रिका । रूपेण रूपाहङ्कारहरणी सुरयोषिताम् ॥७६ ॥ नृपस्य तस्य मलयपवमानो मधोरिव । मित्रं मलयभूनाथोऽभ्याययौ चण्डशासनः ॥७७॥ समुद्रदत्तस्तं प्रीत्या महत्या निजसद्मनि । सादरः सोदरमिवाभोजयत् सपरिच्छदम् ॥७८ ॥ मृगाक्षीं तत्र सोऽद्राक्षीन्नन्दामानन्दिनी हशोः । पत्नी समुद्रदत्तस्य समुद्रस्येव जाह्नवीम् ॥७९॥ स्तब्धाङ्गः कीलित इव स्मरास्त्रैरतिदुःसहैः । जातस्वेदो विप्रलम्भानलधर्मादिवोल्बणात् ॥८॥ सर्वाङ्गमप्यङ्करितप्रेमेव पुलकेन च । भिन्नस्वरो ग्रहग्रस्त इव तस्या वपुर्गुणैः ॥८१॥ प्रकम्पमानसर्वाङ्गस्तदाश्लेष इवोत्सुकः । शुचेव वैवर्ण्यधरस्तदसंप्राप्तिजन्मया ॥ ८२ ॥ बाष्पेण लुप्तनयनः कामान्ध्यमिव धारयन् । तदप्राप्त्या मृत्युमिवाने धमाश्रयन् ॥८३॥ नन्दामालोक्य तत्कालं सर्वाङ्गोपाङ्गसुन्दरीम् । कां कामवस्थां न प्राप मान्मथीं चण्डशासनः ॥८४ ॥
॥पञ्चभिः कुलकम्॥ समुद्रदत्तदत्तौकस्युवासाथ निशास्वपि । लेभे न निद्रां कामार्तो रोगात इव सोऽस्तधीः ॥ ८५॥
282828282828282828282828284
पुरषोत्तमवासुदेवसुप्रभबलदेवमधु-प्रतिवासुदेवचरितम्।
१ आगतः । २ विप्रलम्भो वियोगः, स एवानलोऽग्निस्तेन धर्मः उष्णस्तस्मात् । ३ अङ्करितः- पुलकितः । ४ भूताविष्टः । ५ तस्या नन्दाया अलाभाज्जातेन शोकेन पाण्डुतां दधदिव । ६ तस्यां नन्दायामेव लयं तन्मयतां धारयन् कामार्तस्य प्रकृतिकृपणत्वाद् नन्दामन्तरेण सर्वमपि नष्टुमिच्छन् इत्यर्थः । ७ कामसंबन्धिनीम् । ८ ओको गृहम् । उवास वस' धातो: परोक्षायामन्यपुरुषैकवचनम्।
दि॥१२१॥