________________
चतुर्थं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१२०॥
सर्गः श्रीअनन्तनाथजिनचरितम् ।
28282828282828282828282828
उदीर्णस्वागतमिव वनं तवकोकिलम् । प्रविवेश जगन्नाथो जगन्मन इवोन्मनाः ॥६२॥
॥पञ्चभिः कुलकम् ॥ ततः सागरदत्तातो दत्तहस्तो बिडौजसा । उत्तीर्योज्झाञ्चकारालङ्कारप्रभृतिकं प्रभुः ॥६३ ॥ राधकृष्णचतुर्दश्यां रेवत्यामपरेऽहनि । षष्ठेन प्राव्रजत् स्वामी सहस्रेण समं नृपैः ॥६४॥ वंदित्वा स्वामिनमथ पुरुहूतादयोऽखिलाः । स्वं स्वं स्थानं ययुः सद्यः कृतकार्या इवामराः ॥६५॥ द्वितीयेऽह्नि वर्धमानपुरे विजयवेश्मनि । पारणं परमान्नेन चकाराहँश्चतुर्दशः ॥६६॥ तत्र चक्रे सुधान्धोभिर्वसुधारादि पञ्चकम् । रत्नपीठं तु विजयेनाविन्यासपदे प्रभोः ॥६७ ॥ ततः स्थानादपच्छद्मा छद्मस्थः परमेश्वरः । प्रावर्तिष्ट विहाराय सहमानः परीषहान् ॥ ६८॥ इतश्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहेषु सुन्दरी । पुरी नन्दपुरीत्यस्ति परमानन्दजन्मभूः ॥६९ ॥ नृपो महाबलस्तत्र दत्तशोकोऽरियोषिताम् । अभूदशोकशाखीव स्वकुलोद्यानभूषणम् ॥ ७० ॥ संसारवासवैराग्यं स दधार महामनाः । विदग्धनागर इव ग्रामवासविरक्तताम् ॥७१॥ स वृषभर्षिपादाब्जमूले गत्वोदमूलयत् । पञ्चभिर्मुष्टिभिः केशांश्चरित्रं प्रत्यपादि च ॥ ७२ ॥ उद्यानमिव चारित्रं पालयित्वा महाफलम् । स विपद्य समुत्पेदे सहस्रारेऽमरो वरः ॥७३॥ इतोऽस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । कौशाम्बीत्यस्ति नगरी पुरन्दरपुरोपमा ॥७४ ॥
१ कोकिलाभिरवकीर्णम् । २ उत्सुकः । ३ इन्द्रेण । ४ उपवासद्वयेन। ५ देवैः । ६ निष्कपट:-ऋजुस्वभाव इत्यर्थः । ७ यथा चतुरनागरिकः ग्रामीणताया: विरज्यते तथैवोदारचेताः प्रभुः संसारोद्विग्न: संजातः ।
288888888&R®R&RURX8RXARXA
प्रथम पारणम्।
॥१२०॥