________________
त्रिषष्टि
चतुर्थं पर्व | चतुर्थः
शलाका
पुरुषचरिते
सर्गः श्रीअनन्तनाथजिनचरितम्।
॥११९ ॥
28888888888888888888888888
शैशवं व्यतिचक्राम क्रमादिन्दुरिव प्रभुः । पञ्चाशद्धनुरुत्तुङ्गः प्रतिपेदे च यौवनम् ॥४९॥ निश्चिन्वानो हेयबुद्धया मार्गस्थित इवाश्रयम् । पित्राज्ञयाऽनन्तनाथश्चक्रे दारपरिग्रहम् ॥५०॥ अर्धाष्टमेषु लक्षेषु गतेषु शरदामथ । स्वामी पित्रनुरोधेन राज्यभारमुपाददे ॥५१॥ वर्षलक्षाः पञ्चदश पालयित्वा वसुन्धराम् । दधार चिन्तां मनसि दीक्षायै सिंहसेनभूः ॥५२॥ ब्रह्मलोकात् सुरा लौकान्तिकाः सारस्वतादयः । तीर्थं प्रवर्तय स्वामिन्नित्यूचु : परमेश्वरम् ॥५३॥ जृम्भकैर्जुम्भभिच्छिष्टकुबेरप्रेरितैः सुरैः । पूर्यमाणेन वित्तेन वर्षदानं ददौ विभुः ॥५४॥ तस्य दानस्य पर्यन्ते भवपर्यन्तकामिनः । दीक्षाभिषेकं विदधुः सुरा-ऽसुर-नृपाः प्रभोः ॥५५॥ आमुक्तचित्रनेपथ्यवस्त्रमाल्यो जगत्पतिः । ततः सागरदत्ताख्यामारोहच्छिबिकां वराम् ॥५६॥ शक्रादिभिकृतच्छत्रचामरव्यजनः प्रभुः । तया शिबिकयोद्यानं सहस्राम्रवणं ययौ ॥५७॥ दौलाऽऽन्दोलनसंसक्तनागरस्त्रीजनैर्मुहुः । तदानीं गच्छदागच्छत्खेचरीभिरिवाकुलम् ॥५८ ॥ प्रत्यग्रपल्लवातानविलुलद्धृङ्गकुन्तलैः । अशोकैर्मधुना मत्तैरिव धूर्णद्भिराचितम् ॥५९॥ क्रीडाश्रान्तपुरस्त्रीणां श्रमसर्वस्वहारिभिः । चूतैरुत्पल्लवै रम्यं तालवृन्तधरैरिव ॥ ६०॥ कर्णिकारैः कर्णिकाभिरिवोद्यन्माधवश्रियः । रुचिरं काञ्चनारैश्च काञ्चनैस्तिलकैरिव ॥६१॥
१ निश्चयं कुर्वाण: त्यागबुद्ध्या । २ जृम्भभिच्छिष्ट : जृम्भभि ईन्द्रस्तेन शिष्टः आज्ञप्तः । ३ दोला - 'हिंडोलो' इति भाषायाम्। ४ विलुलन्तो व्याप्ता ये भ्रमरास्ते एव कुन्तला: ।५ व्याप्तम् । ६ कर्णिकार :, काञ्चनारै : - तन्नामकपुष्पविशेषैः।
28282828282828282828282828
दीक्षा।
॥ ११९॥