________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ११८ ॥
KAKDEREREREREREREREDEREREDEI
विकृतस्फाटिकमहाचतुर्वृषविषाणजैः । वारिभिः स्त्रपयामास वासवः परमेश्वरम् ॥ ३५ ॥ वाससा देवदूष्येण प्रमृज्येशं विलिप्य च । अर्चित्वाऽऽरात्रिकं कृत्वा सौधर्मेन्द्रोऽस्तवीदिति ॥ ३६ ॥ तवाग्रे भूमिलुठनैर्ये हि भूरेणुनाञ्चिताः । गोशीर्षचन्दनेनाङ्गरागस्तेषां न दुर्लभः ॥ ३७ ॥ भक्त्यैकमपि यैः पुष्पं त्वन्मूर्धन्यधिरोप्यते । ते छत्राशून्यशिरसः संचरन्ति निरन्तरम् ॥ ३८ ॥ अङ्गरागस्तवाङ्गे यैरेकदाऽपि विधीयते । देवदूष्यांशुकधरास्ते भवन्ति न संशयः ॥ ३९ ॥ निधीयते भवत्कण्ठे पुष्पदामैकदाऽपि यैः । लुठन्ति तेषां कण्ठेषु दोर्लताः सुरयोषिताम् ॥ ४० ॥ ये वर्णयन्त्येकदाऽपि त्वगुणानतिनिर्मलान् । ते गीयन्ते सुरस्त्रीभिरपि लोकातिशायिनः ॥ ४१ ॥ ये चारुचारीचतुरं भक्त्या वैल्गन्ति ते पुरः । ऐरावणकरिस्कन्धासनं तेषां न दुर्लभम् ॥ ४२ ॥ ध्यायन्ति परमात्मानं ये त्वां देव ! दिवानिशम् । त्वादृशीभूय ते लोके ध्येयतां यान्ति सर्वदा ॥ ४३ ॥ स्नात्राङ्गरागनेपथ्याकल्पप्रभृतिकल्पने । अधित्वन्मेऽधिकारोऽस्तु सदाऽपि त्वत्प्रसादतः ॥ ४४ ॥ इति स्तुत्वा जिनपतिं गृहीत्वा च दिवस्पतिः । गत्वा च सुयशोदेव्याः पार्श्वेऽमुञ्चद् यथास्थिति । ४५ ॥ नन्दीश्वरे शाश्वतार्हत्प्रतिमाऽष्टाहिकोत्सवम् । कृत्वा शक्रोऽपरेऽपीन्द्राः स्वं स्वं स्थानं पुनर्ययुः ॥ ४६ ॥ गर्भस्थेऽस्मिञ्जितं पित्राऽनन्तं परबलं यतः । ततश्च चक्रेऽनन्तजिदित्याख्या परमेशितुः ॥ ४७ ॥ योगी ध्यानामृतमिव निजाङ्गुष्ठात् सुधां पिबन् । अस्तन्यपोऽप्यवर्धिष्ट क्रमेण परमेश्वरः ॥ ४८ ॥
१ विषाणम्-शृङ्गम् । २ छत्रयुक्तमस्तकाः । ३ चारूर्या चारी नृत्ये गमनप्रकारस्तया चतुरं यथा स्यात् तथा । ४ नृत्यन्ति । ५ त्वयि । ६ शत्रुसैन्यम् ।
CREDERE DEDEDEDERERERERERERES
चतुर्थं पर्व चतुर्थः सर्गः
श्रीअनन्तनाथजिनचरितम् ।
शक्रकृता
स्तुतिः ।
॥ ११८ ॥