________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ११७ ॥
¡FREDERERERERERERERERERERERY:
अम्बा-जनक- श्वशुरान्वंवायानां बभूव सा । मन्दाकिनीव जगतां त्रयाणामेकपावनी ॥ २२ ॥ वक्त्रस्येन्दुः प्रतिनिधिर्दृशोरनुजमम्बुजम् । कण्ठस्य कम्बुरालेख्यं दोष्णोर्बिलता सखी ॥ २३ ॥ कुम्भः सनाभिः स्तनयोर्नाभेर्विवरमात्मभूः । प्रतिबिम्बं नितम्बस्य कूलिनीपुलिनावनिः ॥ २४ ॥ उर्वोरवरजा रम्भा पादयोः पद्ममन्तिषद् । तस्याः सर्वाङ्गरम्यायाः किं किं न ह्यतिशाय्यभूत् ॥ २५ ॥ ॥ त्रिभिर्विशेषकम् ॥
इतश्च प्राणते कल्पे जीवः पद्मरथस्य सः । प्रकृष्टस्थितिकं स्वायुः सुखमग्नोऽत्यवाहयत् ॥ २६ ॥ श्रावणासितसप्तम्यां रेवतीस्थे निशाकरे । ततश्च्युत्वा सुयशसो देव्याः कुक्षाववातरत् ॥ २७ ॥ ददर्श च महास्वप्नान् कुञ्जरादींश्चतुर्दश । सुखसुप्ता निशाशेषे देव्यर्हज्जन्मसूचकान् ॥ २८ ॥ राँधकृष्णत्रयोदश्यां पौष्णे भे श्येनलाञ्छनम् । सुवर्णवर्णं सुयशाः स्वामिनी सुषुवे सुतम् ॥ २९ ॥ अथ ऊर्ध्वं रुचकेभ्योऽभ्येत्य सद्योऽप्यथार्हतः । षट्पञ्चाशद्दिकुमार्यः सूतिकर्माणि चक्रिरे ॥ ३० ॥ सौधर्मकल्पाधिपतिस्तत्रोपेत्य प्रणम्य च । प्रभुमादाय वियंता मेरुशैलशिरो ययौ ॥ ३१ ॥ अतिपाण्डुकम्बलायां शिलायां तत्र वासवः । सिंहासन उपाविक्षदुत्सङ्गारोपितप्रभुः ॥ ३२ ॥ इन्द्रास्त्रिषष्टिरभ्येत्याच्युतप्रभृतयस्ततः । क्रमेणास्त्रपयन् नाथमाहृतैस्तीर्थवारिभिः ॥ ३३ ॥ ईशानाधिपतेरङ्के महासारं न्यधात् प्रभुम् । शक्रस्तद्भारवहनश्रमेणेव गरीयसा ॥ ३४ ॥
१ अन्ववायः - वंशः । २ शङ्खस्तस्याः कण्ठस्य चित्रमासीत् । ३ बिसलता कमलनाललता बाह्वोः सखीभूता आसीत्। ४ गुहा नाभे: पुत्ररूपाऽभूत् । ५ नद्याः सिकतावनिः । ६ पद्मं पादयोरन्तिषद् शिष्यः । ७ राधः वैशाखः । ८ आकाशमार्गेण ।
EREREREREREDEREREREREREDEREI
चतुर्थं पर्व चतुर्थः सर्गः
श्रीअनन्तनाथजिनचरितम् ।
श्रीअनन्त
जिनजन्म |
॥ ११७ ॥