________________
चतुर्थं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१२६ ॥
सर्गः श्रीअनन्तनाथजिनचरितम्।
282828282828282828282828286
दृप्तानां दर्पहरणो विनीतानां च वत्सलः । प्रचण्डदोर्बलजयी क्षत्रव्रतमहाधनः ॥१३९॥ दासेरैरिव याम्याईभरतक्षेत्रवर्तिभिः । राजहंसैः कुलोद्भूतैः सेव्यमानपदाम्बुज : ॥१४० ॥ वैताढ्यदक्षिणश्रेणिविद्याधरनृपैरपि । दत्तदण्डः प्रचण्डाज्ञ आखण्डल इवापरः ॥१४१ ॥ भरतार्थोद्यानमधुरर्धचक्रधरो मधुः । त्वां शासितुं प्राहिणोन्मां श्रूयतां तदिदं नृप ! ॥१४२ ॥
॥चतुर्भिः कलापकम् ॥ त्वां कामं भक्तिकारीति पुरा संविद्महे वयम् । पुत्रौजसाऽद्यान्यथाभूरिति संशृण्महे जनात् ॥१४३ ॥ तद् यदि त्वं स एवासि न कश्चित् ते विपर्ययः । स्वामिने प्रेष्यतां दण्डो मर्यादीकृत्य कुञ्चिकाम् ॥१४४ ॥ भर्तुः प्रसादाद् भूयोऽपि तव सर्वं भविष्यति । आदत्ते ह्यम्बु यद् भानुः पुनरुज्झति भूरि तत् ॥ १४५ ॥ तस्याप्रसादात् सदपि सर्वस्वं तव यास्यति । श्रियः स्वामिनि रुष्टे हि न तिष्ठन्ति भयादिव ॥१४६ ॥ दूरे वा सम्पदः सन्तु यत् स्वामिनि विरोधिते । कलत्र-पुत्र-मित्रादि जीवितं च कुतस्तव ॥१४७॥ कृत्वा स्वामिन आदेशं देशं शाधि यथास्थिति । गिरस्ताः सन्तु मोधास्त्वत्पिशुनानां शुनामिव ॥१४८ ॥ अथोद्यद्रोषपरुषं बभाषे पुरुषोत्तमः । दूतत्वेन न वध्योऽसि तेनेदं कद्वदावदः ॥१४९॥ किमुन्मत्तोऽथवा मत्तः प्रमत्तोऽथ पिशाचधीः । ईदृग्भाषी त्वं त्वदीश ईदृग्भाषयिता च सः ॥१५०॥
282828282828282828282828286
पुरुषोत्तमसुप्रभ-मधुचरितम्।
॥१२६॥
१ दासीपुत्रैरिव। २ इन्द्रः । ३ भरतार्धमेवोद्यानं तस्मिन् मधुर्वसन्तसदृशः । ४ इतिनाऽभिहित-त्वादन प्रथमा। ५ पूर्ववद् भक्तिकारी। ६ वैपरीत्यम्। ७ उद्धाटन-साधनम्, 'कुंची' भाषायाम्। ८ व्याः , असत्याः इति यावत् । ९ कुत्सितमत्यन्तं वदतीति क्वादावदः ।