________________
त्रिषष्टिशलाका
चतुर्थं पर्व तृतीयः सर्गः
पुरुषचरिते
॥११४॥
श्रीविमलनाथजिनचरितम् ।
28282828282828282828282828
निर्वाणमहिमा भर्तुः संयतानां च सर्वतः । उपेत्य विदधे तत्र पुरुहूतादिभिः सुरैः ॥ २२६ ॥ कौमारे पञ्चदशाब्दलक्षास्त्रिंशदिलाऽवने । व्रते पञ्चदशेत्यायुः प्रभोः षष्ट्यब्दलक्ष्यभूत् ॥ २२७ ॥ श्रीवासुपूज्यनिर्वाणाद् विमलस्वामिनिर्वृतिः । सागराणां त्रिंशति तु व्यतीतायामजायत ॥ २२८॥ स्वयम्भूरपि चैश्वर्यमदेन प्रभविष्णुना । परिलुप्तविवेकः सन् क्रूरकर्माऽकरोन्न किम् ? ॥ २२९॥ षष्टिं वत्सरलक्षाणि संपूर्यायुर्निजं हरिः । तैस्तैः स्वकर्मभिः षष्ठी जगाम नरकावनीम् ॥ २३०॥ स्वयम्भुवः कुमारत्वे द्वादशाब्दसहस्रयभूत् । सैव मण्डलिकत्वे च नवत्यब्दी तु दिग्जये ॥ २३१ ॥ राज्ये त्वेकोनषष्ट्यब्दलक्षाण्यथ सहस्त्रकाः । पञ्चसप्ततिरधिका दशाग्रैर्नवभिः शतैः ॥ २३२ ॥
भद्रोऽपि सोदरविपत्तिशुचा विरक्त आत्तव्रतोऽथ मुनिचन्द्रमुनेः समीपे। षष्टिं च पञ्च च निजायुषि वर्षलक्षान् नीत्वा विपद्य च पदं परमं प्रपेदे ॥ २३३ ॥ इत्याचार्यश्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्री विमलनाथ-स्वयम्भू-भद्र-मेरकचरितवर्णनो
नाम तृतीयः सर्गः
28282828282828288888888888
श्रीविमल
जिनस्य
निर्वाणम्।
॥११४॥
१ पृथ्वीपालने।