________________
त्रिषष्टिशलाकापुरुषचरिते ॥११३
चतुर्थं पर्व तृतीयः
सर्गः श्रीविमलनाथजिनचरितम्।
282828282828282828282828288
संप्राप्तबोधयो जीवा न रज्यन्ते भवे क्वचित् । निर्ममत्वा भजन्त्येकं मुक्तिमार्गमनर्गलाः ॥२१३ ॥ श्रुत्वैवं देशनां भर्तुः प्रायेण प्राव्रजञ्जनाः । भेजे स्वयम्भू : सम्यक्त्वं श्रावकत्वं च सीरभृत् ॥२१४ ॥ पूर्णायामादिपौरुष्यां व्यस्त्राक्षीद् देशनां प्रभुः । ततस्तथैव तां चक्रे मन्दरो गणभृद्वरः ॥ २१५ ॥ पूर्णद्वितीयपौरुष्यां देशनां सोऽप्यपारयत् । स्वं स्वं स्थानं ययुश्चेन्द्रोपेन्द्र-भद्रादयोऽपि हि ॥ २१६ ॥ ततः स्थानात् पुर-ग्रामा-ऽऽकर-द्रोणमुखादिषु । व्यहरद् विमलस्वामी लोकानुग्रहकाम्यया ॥२१७ ॥ अष्टषष्टिः सहस्राणि श्रमणानां महात्मनाम् । आर्यिकाणां लक्षमेकं शतैरष्टभिरन्वितम् ॥२१८ ॥ चतुर्दशपूर्वभृतामेकादश शतानि तु । अवधिज्ञानिनामष्टचत्वारिंशच्छतानि तु ॥२१९ ॥ शतानि पञ्चपञ्चाशन्मनःपर्यवधारिणाम् । तावन्त्येव तु शतानि केवलज्ञानिनामपि ॥ २२० ॥ जातवैक्रियलब्धीनां शतानि नवतिः पुनः । संजातवादलब्धीनां त्रिसहस्त्री द्विशत्यपि ॥ २२१ ॥ श्रावकाणामुभे लक्षे सहस्राष्टकसंयुते । श्राविकाणां चतुर्लक्षी चतुस्त्रिंशत्सहस्रयुक् ॥ २२२ ॥ द्विवर्षोनां पञ्चदशाब्दलक्षी केवलात् परम् । महीं विहरमाणस्य परिवारोऽभवत् प्रभोः ॥ २२३ ॥
॥षभिः कुलकम् ॥ ज्ञात्वा निर्वाणमासन्नं संमेताद्रिं ययः प्रभुः । षड्भिः साधुसहस्त्रैश्च सहानशनमाददे ॥२२४ ॥ मासं स्थित्वा शुचिकृष्णसप्तम्यां पौष्णगे विधौ । मुनिभिस्तैः समं स्वामी जगाम पदमव्ययम् ॥ २२५ ॥
१ शुचि: आषाढ :।
828282828282828282828282828
श्रीविमलजिनस्य परिवारादिः।
॥११३॥