________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ११२ ॥
FREDERERERERERERERERERERERG
विवेकदर्पणोन्माष्टिसमुत्पादनकर्मठा: । कल्याणतरूबीजाभाः पान्तु त्वत्पादपांसवः ॥ १९८ ॥ स्वामिन् ! पीयूषगण्डूष इव ते देशनावचः । संसारमरुमग्नानामस्तु नः स्वास्थ्यहेतवे ॥ १९९ ॥ स्तुत्वेति सत्सु तूष्णीकेष्विन्द्रोपेन्द्रबलेषु तु । विमलां विमलस्वामी प्रारेभे धर्मदेशनाम् ॥ २०० ॥ अकामनिर्जरारूपात् पुण्याज्जन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा तिर्यक्त्वं वा कथञ्चन ॥ २०१ ॥ मानुष्यमार्यदेशश्च जाति: सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथञ्चित् कर्मलाघवात् ॥ २०२ ॥ प्राप्तेषु पुण्यतः श्रद्धा-कथक - श्रवणेष्वपि । तत्त्वनिश्चयरूपं तद् बोधिरत्नं सुदुर्लभम् ॥ २०३ ॥ राज्यं वा चक्रभृत्त्वं वा शक्रत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा ॥ २०४ ॥ सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तश: । बोधिर्न जातुचित् प्राप्ता भवभ्रमणदर्शनात् ॥ २०५ ॥ पुद्गलानां परावर्तेष्वनन्तेषु गतेष्विह । उपार्धे पुद्गलावर्ते शेषे सर्वशरीरिणाम् ॥ २०६ ॥ सर्वेषां कर्मणां शेषेऽन्तः कोटी कोट्यवस्थितौ । ग्रन्थिभेदात् कश्चिदेव लभते बोधिमुत्तमाम् ॥ २०७ ॥ यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥ २०८ ॥ कुशास्त्रश्रवणं सङ्गो मिथ्यादृग्भिः कुवासना । प्रमादशीलता चेति स्युर्बोधिपरिपन्थिनः ॥ २०९ ॥ चारित्रस्यापि संप्राप्तिर्दुर्लभा यद्यपीरिता । तथापि बोधिप्राप्तौ सा सफला निष्फलाऽन्यथा ॥ २१० ॥ अभव्या अपि चारित्रं प्राप्य ग्रैवेयकावधि । उत्पद्यन्ते विना बोधिं प्राप्नुवन्ति न निर्वृत्तिम् ॥ २११ ॥ असंप्राप्ते बोधिरत्ने चक्रवर्त्यपि रङ्कवत् । संप्राप्तबोधिरत्नस्तु रङ्कोऽपि स्यात् ततोऽधिकः ॥ २१२ ॥ १ गण्डूष:- 'घुंटडो' इति भाषायाम् । २ सर्वेन्द्रियपटुता । ३ परिपन्थी - शत्रुः । ४ मोक्षम् ।
REDEREREREDEREREDEREREDERI
चतुर्थं पर्व तृतीयः सर्गः
श्रीविमलनाथजिनचरितम् ।
श्रीविमलजिनस्य धर्मदेशना ।
॥ ११२ ॥