________________
त्रिषष्टिशलाकापुरुषचरिते ॥१११॥
चतुर्थं पर्व तृतीयः
सर्गः श्रीविमलनाथजिनचरितम्।
शक्रस्तुतिः।
282828282828282828282828286
शक्राद्यैस्तत्र समवसरणं विदधेऽमरैः । विंशत्यग्रधनुः सप्तशतोच्चाशोकपादपम् ॥१८३ ॥ तत्र प्रविश्य प्रागद्वारा भगवांश्चैत्यपादपम् । त्रिः प्रदक्षिणयामास पालयन्नाहती स्थितिम् ॥ १८४ ॥ 'तीर्थाय नमः' इत्युक्त्वा पूर्वाशाभिमुखं ततः । सिंहासनमलञ्चक्रे धर्मचक्री त्रयोदशः ॥१८५ ॥ यथाद्वारं प्रविविशुर्यथास्थानं स्थितिं व्यधुः । साधवोऽथायिका देवा देव्यो नार्यो नरा अपि ॥१८६ ॥ तदा च द्वारकां गत्वा त्वरितं राजपूरुषाः । स्वामिनं समवसृतं शशंसुः शार्ङ्गपाणये ॥ १८७ ॥ स्वाम्यागमनशंसिभ्यः स्वयम्भूः पारितोषिके । सार्धा द्वादश रूप्यस्य कोटीः प्रमुदितो ददौ ॥१८८ ॥ स्वयम्भूः सह भद्रेण भद्राणामेककारणम् । शीघ्रं समवसरणं जगाम प्रविवेश च ॥१८९ ॥ तत्र प्रदक्षिणीकृत्य नत्वा च परमेश्वरम् ! अनुशक्रं सभद्रोऽपि स्वयंभूः समुपाविशत् ॥१९० ॥ नत्वा जिनेन्द्रं भूयोऽपि रचिताञ्जलिसंपुटाः । एवमारेभिरे स्तोतुं वज्रभृच्छा!भृद्बलाः ॥१९१ ॥ देव ! त्वदर्शनेनाद्य दुःखं सांसारिकं ययौ । शरीरिणां भुवः पङ्क इव वार्षिकवारिणा ॥१९२ ॥ पुण्योऽयं दिवसः स्वामिंस्त्वदर्शननिबन्धनम् । यत्रामलीभविष्यामो दुःकर्ममलिना वयम् ॥१९३ ॥ अङ्गावयवराजत्वं प्रत्यपद्यन्त नो दृशः । यास्त्वदर्शनमासाद्य सद्योऽधुः शुद्धिमात्मनः ॥ १९४ ॥ पूतास्त्वत्पादसंपर्काद् भरतक्षेत्रभूमयः । अपि ताः पापनाशाय किं पुनस्तव दर्शनम् ॥१९५ ॥ मिथ्यादृशामुलूकानामिव त्वदर्शनं प्रभो ! । केवलालोकमार्तण्डतिरोभावनिबन्धनम् ॥१९६ ॥ त्वदर्शनसुधापानसमुच्छसितवर्मणाम् । अद्य देव ! त्रुटिष्यन्ति कर्मबन्धाः शरीरिणाम् ॥१९७ ॥
१ वर्म-वपुः।
28282828282828282828282828
॥१११॥