________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ११० ॥
REDEREREREDEREREDERERERKRY
ततश्च साधयामास भरतार्धं सदक्षिणम् । दधद् दक्षिणपाणिस्थं चक्रं दिक्चक्रजित्वरम् ॥ १६८ ॥ दिग्यात्राया न्यवर्तिष्ट स्वयम्भूर्भूर्जयश्रियः । भरतार्धश्रिया स्वैरं रममाणो नवोढया ॥ १६९ ॥ गच्छन् मार्गे शार्ङ्गपाणिर्मगधेषु ददर्श च । शिलां कोटिनरोत्पाट्यां कपालपुटवद् भुवः ॥ १७० ॥ वामेनोत्पाटयामास बाहुना तामधोक्षजः । लीलयाऽपि वसुमतीमधिभूः फणिनामिव ॥ १७१ ॥ शिलां तां न्यस्य तत्रैव दोष्मतां चित्रमादधत् । ययौ दिनैः कतिपयैः पुरीं द्वारवतीं हरिः ॥ १७२ ॥ तत्र रुद्रेण भद्रेण पार्थिवैरपरैरपि । स्वयम्भुवोऽर्धचक्रित्वाभिषेको ऽकारि सोत्सवै : ॥ १७३ ॥ इतश्च वर्षद्वितयं छद्मस्थो विमलप्रभुः । विहृत्य दीक्षोपवनं सहस्राम्रवणं ययौ ॥ १७४ ॥ तत्र जम्बूतले भर्तुरपूर्वकरणक्रमात् । क्षपकश्रेण्यारूढस्य घातिकर्माणि तुत्रुटुः ॥ १७५ ॥
षष्ठ्यां सितायां पौषस्योत्तरभद्रपदासु भे । उदभूत् केवलज्ञानं षष्ठेन तपसा प्रभोः ॥ १७६ ॥ दिव्ये समवसरणे विदधे देशनां विभुः । गणेशाः सप्तपञ्चाशच्चाभूवन् मन्दरादयः ॥ १७७ ॥ तत्तीर्थेऽभूत् षण्मुखाख्यो यक्षः शिखिरथः सितः । दक्षिणैः फलचक्रेषुखङ्गपाशाक्षसूत्रिभिः ॥ १७८ ॥ वामैः सनकुलचक्रकोदण्डफलकांशुकैः । अभीदेन च दोर्दण्डैर्भर्तुः शासनदेवता ॥ १७९ ॥ तथोत्पन्ना विदिताख्या हरितालसमद्युतिः । पद्मारूढा बाणपाशधरदक्षिणपाणिका ॥ १८० ॥ कोदण्डनागसंयुक्तदक्षिणेतरबाहुका । श्रीमद्विमलनाथस्य जज्ञे शासनदेवता ॥ १८९ ॥ ताभ्याममुक्तसांनिध्यस्ततः स्थानाज्जगद्गुरुः । विहरन्नन्यदा द्वारवत्याः परिसरं ययौ ॥ १८२ ॥
१ स्थानं जयलक्ष्म्याः । २ इन्द्रः । ३ स्वामी ४ मयूरवाहनः । ५ अभयदेन ।
FREDEREREREREREREREDERERERI
चतुर्थं पर्व तृतीयः सर्गः
श्रीविमलनाथजिनचरितम् ।
विमलनाथ
जिनस्य कैवल्य समवसरणं च ।
॥ ११० ॥