________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०९ ॥
चतुर्थं पर्व तृतीयः
सर्गः श्रीविमलनाथजिनचरितम् ।
282828282828282828282828282
मुक्त्वाऽपि चक्रं नष्टव्यं यत् त्वयाऽद्यापि नश्यताम् । काकानां तस्कराणां च नश्यतां का ननु त्रपा? ॥१५४॥ मुञ्च मुञ्चाथवा चक्रं बलमस्यापि दृश्यताम् । अपि ते म्रियमाणस्य नानुतापो यथा भवेत् ॥१५५॥ इत्युक्तो मेरकश्चक्रं व्योम्नि भौममिवापरम् । ज्वालाजालकरालं तद् भ्रमयित्वाऽमुचद् द्विषि ॥१५६ ॥ शाङ्गपाणेरुरःपीठं तेनाजघ्ने चपेटया । कांस्यतालं कांस्यतालेनेव प्रास्फलता दृढम् ॥ १५७ ॥ चक्रतुम्बाग्रघातेन स्वयम्भूस्तेन मूच्छितः । पपात स्यन्दनोत्सङ्गे क्षीबवत् तरलेक्षणः ॥ १५८ ॥ दधार च तमुत्सङ्गे मुशली प्रियबान्धवः । वत्साश्वसिह्याश्वसिहीत्युच्चरन् साश्रुलोचनः ॥१५९ ॥ तैरेवाश्रुजलैर्धातुः सिक्तो वक्षसि शार्ङ्गभृत् । लब्धसंज्ञः समुत्तस्थौ तिष्ठ तिष्ठेत्यरिं वदन् ॥१६०॥ उत्थायादाय तच्चक्रं कालचक्रमिव द्विषाम् । हरिर्मेरकमित्यूचे दृष्टः स्मेरेक्षणैर्निजैः ॥१६१ ॥ इदं सर्वास्त्रसर्वस्वं जीवितव्यमिदं च ते । तद्गतं पश्यतोऽप्यद्य शिरोरत्नमहेरिव ॥१२॥ कस्य तिष्ठस्यवष्टम्भाद् गच्छ गच्छाधुना ननु । हन्ति स्वयम्भून परान् समरादपगच्छतः ॥१६३ ॥ मेरकोऽप्यब्रवीन्मुञ्च पश्यौजोऽस्य त्वमप्यहो !। नाभूत् पत्युः कलत्रं या सा स्यापपतेः कथम् ?॥१६४॥ इत्युक्तः शार्ङ्गभृच्चक्रं भ्रमयित्वा मुमोच तत् । लीलया मौलिकमलं मेरकस्य चकर्त च ॥१६५ ॥ स्वयम्भुवश्चोपरिष्टात् पुष्पवृष्टिर्दिवोऽपतत् । तथैव पृथिवीपृष्ठे कबन्धो मेरकस्य च ॥१६६ ॥ नृपैश्च मेरकायत्तैः स्वयम्भूः शिश्रिये क्षणात् । जन्ययात्रा हि सैवाभूत् परमन्यतरो वरः ॥१६७ ॥
१ मङ्गलग्रहम् । २ 'खडताला' इति भाषायाम् । ३ स्यन्दनो रथः । ४ क्षीबो मत्तः । ५ वत्स ! आश्वसिहि आश्वसिहि इति उच्चरन्-इति विभागः । ६ आलम्बनात् । ७ आरस्य। ८ 'धड' इति भाषायाम् । ९ जन्यम्-युद्धम्।
8282828282828282828282828285
स्वयम्भूभद्र-मेरक चरितम्।
॥१०९॥