________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १०८ ।।
YAYAYAYAYA
GRERE DE RERE
सैन्यान् संस्थापयामास ताम्रचूडानिव स्वयम् । मेरको रथमारुह्य डुढौकेऽभिस्वयम्भुवम् ॥ १४० ॥ किं मुधा सैन्यसंहारेणेति व्याहारिणौ मिथः । आस्फालयामासतुस्तौ धनुरेकधनुर्धरौ ॥ १४१ ॥ उद्वाहमण्डपमिव विदधानौ जयश्रियः । मार्तण्डच्छादिभिर्बाणजालैर्द्वावप्यवर्षताम् ॥ १४२ ॥ बाणवृष्ट्या बाणवृष्टिं तौ निराचक्रतुर्मिथः । विषं विषेणेव हुताशनेनेव हुताशनम् ॥ १४३ ॥ सहस्त्रशः शरकरैः प्रसरद्भिर्विराजिनौ । अर्काविवोद्गतौ द्वौ तौ ददृशाते भयङ्करौ ॥ १४४ ॥ पाणिर्गतागतं कुर्वन्निषङ्गधनुरन्तरे । अलक्ष्योऽलक्ष्यत तयोरूर्मिकातेजसैव हि ॥ १४५ ॥ पाणिस्तदैव तूणीरे तदैव हि धनुर्गुणे । पतन् द्वैरूप्यभृदिवाभात् तयोर्लघुहस्तयो : ॥ १४६ ॥ बाणैरजय्यं ज्ञात्वाऽरिं मेरकोऽस्त्रैर्गदादिभिः । ववर्ष कल्पान्तमरुच्छैलशृङ्गैरिवोद्धतैः ॥ १४७ ॥ तानि स्वयम्भूः प्रत्यस्त्रैर्भस्मसादकरोद् द्रुतम् । दृग्ज्वालाभिः करालाभिश्चक्षुर्विष इवोरगः ॥ १४८ ॥ रणपारं जिगमिषुश्चक्रं सस्मार मेरकः । व्याधस्य सिञ्चान इव पाणौ तस्यापतच्च तत् ॥ १४९ ॥ उदीरयामास ततो मेरकोऽपि स्वयम्भुवम् । क्रीडया युध्यमानेन मयैवासि भटीकृतः ॥ १५० ॥ एष छेत्स्यामि ते शीर्षं गच्छ गच्छाधुनाऽप्यरे ! । काकानां तस्कराणां च नश्यतां का ननु त्रपा ? १५१ ॥ स्वयम्भूरप्युवाचैवं क्रीडायुद्धं यदीदृशम् । प्रेक्ष्यं तत् कोपयुद्धं ते तदर्थं ह्यहमागमम् ॥ १५२ ॥ आच्छिन्दन्तो द्विषां लक्ष्मीं वीराश्चेत् तस्करास्तदा । प्रथमस्तस्करोऽसि त्वं प्रदत्ता तव केन सा ? ॥ १५३ ॥ १ कुक्कुटान् । २ वादिनौ । ३ इषङ्गः- 'भाथु' इति भाषायाम् । ४ ऊर्मिका अङ्गुली । ५ 'सींचाणो' इति भाषायाम् । ६ भटो योधः । ७ अपहरन्तः । ८ लक्ष्मीः ।
'ACREDEREREREDERERERERERERE
चतुर्थं पर्व तृतीयः सर्गः
श्रीविमलनाथजिनचरितम् ।
स्वयम्भूभद्र-मेरकचरितम् ।
।। १०८ ।।