________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०७॥
चतुर्थं पर्व तृतीयः
सर्गः श्रीविमलनाथजिनचरितम् ।
28282828282828282828282828
आमित्युक्तो मेरकेण स द्रुतं द्वारकां ययौ । भद्र-स्वयम्भूसहितं रुद्रं चैवमभाषत ॥ १२५ ॥ किमेतत् तव पुत्राभ्यामज्ञानानृपते ! कृतम् । हन्यते न खलु श्वाऽपि स्वामिनो मुखलज्जया ॥१२६ ॥ एवमप्यर्प्यतां सर्वं न ते दोषो भविष्यति । छादयिष्यत्यात्मजयोर्दोषमज्ञानतैव हि ॥१२७ ॥ अथ स्वयम्भूरित्यूचे स्वामिभक्त्या भवानिदम् । तातं प्रत्यार्यभावेन चार्यधीर्वक्ति साधु तत् ॥१२८ ॥ धीरीभूय निरीक्षध्वं तस्याच्छिन्नमिदं कियत् । आच्छेत्स्यामो महीं सर्वां वीरभोग्या हि भूरियम् ॥१२९ ॥ आर्यस्य बलभद्रस्य दोष्णोर्मम च को बलम् । सहिष्यते कृतान्तस्य कुपितस्येव संगरे ॥१३०॥ एकं तमेव हत्वाऽहं भोक्ष्येऽर्धभरतं स्वयम् । किमन्यैः कुट्टितैर्भूपैर्बहुभिः कीटकैरिव ॥१३१ ॥ तेनापि दोर्बलेनात्तं भरतार्धं न पैतृकम् । तन्न्यायेन ममाप्यस्तु बलिनो बलिनामपि ॥१३२ ॥ इत्युक्त्या विस्मितो भीतो हीतश्च सचिवोऽथ सः । गत्वा द्रुतं मेरकाय समाचख्यौ यथातथम् ॥१३३ ॥ मत्तेभ इव संक्रुद्धस्तस्य दुःश्रवया गिरा । कम्पयन् क्ष्मां सैन्यभारैः प्रतस्थे मेरकस्ततः ॥१३४ ॥ इतः स्वयम्भू रुद्रेण भद्रेण च समन्वितः । प्रतस्थे द्वारकापुर्याः कन्दरादिव केसरी ॥१३५ ॥ जनयन्तौ जनक्षोभं भैरवौ रौद्र-मेरको । राहु-सौरी इवैकत्र क्रमेणाथ समेयतुः ॥१३६ ॥ अभुच्छस्त्रप्रहाराग्निकरालितदिगन्तरः । तत्सैन्ययोः संप्रहारः प्रहाण इव दारुणः ॥१३७॥ स्वयम्भूः पूरयामास पाञ्चजन्यमथ स्वयम् । अशेषद्विषदुच्चाटमन्त्रोपममहास्वनम् ॥ १३८ ॥ पाञ्चजन्यध्वनेस्तस्मात् त्रेसुर्मेरकसैनिकाः । न हि केसरिबत्कारं श्रुत्वा तिष्ठन्ति वारणा : ॥१३९॥
१ सौरि:- शनिः । २ प्रलयकाल इव; ३ गजाः ।
28282828282828282828282828
स्वयम्भूभद्र-मेरक चरितम्।
॥१०७॥