________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०६
चतुर्थं पर्व तृतीयः
सर्गः श्रीविमलनाथजिनचरितम्।
8888888888828282828282828
गृह्यतां सर्वमप्येतदाच्छिद्य स्वयमोजसा । करमुत्क्षिप्य तानेवं स्वकीयानादिशद् भटान् ॥ १११ ॥ गदामुद्गरदण्डाद्यैः शशिसौम्यस्य सैनिकान् । तद्भटास्ताडयामासुः फलितानिव पादपान् ॥ ११२ ॥ अतर्कितद्रोहिभिस्तैः प्रसुप्ता इव सौप्तिकैः । हन्यमानाः प्रणेशुस्ते प्राणानादाय काकवत् ॥ ११३ ॥ हस्त्यश्वाद्याददे पश्चात् तत्सर्वं शाडूपाणिना । क्षत्रियाणां गुणो ह्येष परश्रीहरणं हठात् ॥११४॥ ताभ्यामपहृतं द्रव्यं मेरकायार्धचक्रिणे । शशंसुः शशिसौम्यस्य नरा पूत्कारकारिणः ॥ ११५ ॥ तदाकर्ण्य परिक्रुद्धो निर्मर्याद इवान्तकः । मेरकोऽधिसभं भीमभ्रकुटीकोऽब्रवीदिति ॥११६ ॥ पादाहतिः खरेणेव पिण्डमत्तेन दन्तिनः । कुटुम्बिकसर्मिण्या हालिकेनेव कुट्टनम् ॥ ११७॥ चपेटाघटनमिव मण्डूकेन फणाभृतः । स्वमृत्यवे कृतमिदमनात्मज्ञेन रौद्रिणा ॥११८ ॥ पक्षोद्गमः पीलिकानामिव पर्यन्तकारणम् । विपरीता मतिः पुंसां भवेद् दैवे पराङमुखे ॥११९ ॥ सपितृभ्रातरं नव्यभ्रातृव्यकमुपस्थितम् । हनिष्याम्येष तं दस्युमिव प्राभृतहारिणम् ॥ १२० ॥ अथैकः सचिवोऽवोचद्वाल्यात् ताभ्यामिदं कृतम् । रुद्रेण भूभुजा दीर्घ सेवितोऽसीति मा कुपः ॥१२१ ॥ मन्ये न संमतं राज्ञो रुद्रस्यैतद् भविष्यति । आरिराधयिषैवास्ति तस्य त्वां स्वामिनं प्रति ॥ १२२ ॥ स्वामिनः प्रथमे कोपे नद्याः पूरे च क : पतेत् । एवमाशङ्कया नूनं रूद्रभूपो विलम्बते ॥१२३ ॥ देव ! प्रसीदादिश मां तदभीतिं प्रयच्छ च । आनेष्यामि प्राभूतं तत् सविशेषमहं ततः ॥१२४ ॥
१ अपहृत्य । २ सुप्तेष्वाक्रामकैः । ३ हालिक:-हलभृत् 'खेडूत' इति भाषायाम् । ४ पिपीलिकानां पक्षोत्पत्तिमरणसंसूचिका-इति भावार्थः । ५ आराधयितुमिच्छा।
288888888888888888888888888
स्वयम्भूभद्र-मेरक चरितम्।
॥१०६ ॥