________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व तृतीयः
सर्गः श्रीविमलनाथजिनचरितम् ।
॥१०५
282828282828282828282828282
भद्र इत्यभिधां तस्य विदधे रुद्रभूपतिः । कुलभद्रश्रिया सार्धं व्यवर्धिष्ट क्रमेण सः ॥९६ ॥ धनमित्रस्य जीवोऽपि प्रच्युत्याच्युतकल्पतः । उत्पेदे पृथिवीकुक्षौ सरसीव सरोरुहम् ॥ ९७ ॥ साऽपि सप्त महास्वप्नान् शा!भृज्जन्मसूचकान् । सुखसुप्ता निशाशेषेऽपश्यत् प्रविशतो मुखे ॥९८॥ संपूर्णे समये साऽपि श्यामाङ्गमतिभासुरम् । असूत सूनुं वैडूर्यं वैडूरगिरिभूरिव ॥ ९९ ॥ स्वयम्भूरिति तस्यापि नामधेयं प्रमोदभाक् । विदधे रुद्रभूपाल उत्सवेन महीयसा ॥१००॥ नित्यमेव हि धात्रीभिः पाल्यमानः स पञ्चभिः । व्यवर्धिष्ट समितिभिर्मुनेरिव तपोऽनघम् ॥१०१ । भद्र-स्वयम्भुवौ प्रीत्या संगच्छेते स्म सर्वदा । प्रवाहाविव तौ गाङ्ग-यामुनौ श्वेतमेचकौ ॥१०२ ॥ सेहिरे न तयोः पादघातान् राजकुमारकाः । तत्पादपरिघातेन भ्रश्यन्ति स्माद्रयोऽपि यत् ॥ १०३ ॥ नील-पीतांशुकभृतौ तौ ताल-गरुडध्वजौ । चलन्तौ क्रीडयाऽप्युर्वी पर्यचालयतामिमाम् ॥ १०४ ॥ अभ्यासः सर्वशस्त्रेषु सर्वशास्त्रेषु चाभवत् । दोर्वीर्य-बुद्धयोस्तारुण्यमिव लक्ष्मीविशेषकृत् ॥१०५ ॥ पुरीपरिसरेऽन्येद्युः क्रीडन्तौ तावपश्यताम् । हस्त्यश्वकोशबहुलं सारक्षं शिबिरं स्थितम् ॥१०६ ॥ इदं प्रैष्यत केनेहासुहृदा सुहृदाऽथवा । इति लाङ्गलिना पृष्टः प्रोवाच सचिवात्मजः ॥१०७ ॥ भूभुजा शशिसौम्येन मेरकायार्धचक्रिणे । प्रेषितं प्राभृतमिदं दण्डे जीवितकाम्यया ॥१०८ ॥ तच्छ्रुत्वा कुपितः शार्ङ्गपाणिरेवमवोचत । किं नः संपश्यमानानां दण्डस्तस्मै भविष्यति ॥१०९॥ वराको मेरकः कोऽयं यः किलास्मासु सत्स्वपि । पार्थिवान् दण्डयत्येवं द्रष्टव्यं तस्य पौरुषम् ॥११०॥
१ समितयः- ईर्यादयः पञ्च । २ मेचक:-कृष्णः। ३ वराक:- 'रांक' 'बीचारो' इति भाषायाम् ।
8888888282828282828282828286
स्वयम्भूभद्र-मेरक चरितम्।
॥१०५ ॥