________________
चतुर्थं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥११५ ॥
चतुर्थः
सर्गः श्रीअनन्तनाथजिनचरितम् ।
282828282828282828282828284
चतुर्थः सर्गः। (श्रीअनन्तनाथजिन-पुरुषोत्तम-सुप्रभ-मधुचरितम् । पायादनन्तस्वामी वः सिद्धानन्तचतुष्टयः । इहापि देहिनां मोक्ष इवानन्तसुखप्रदः ॥१॥ श्रीमतोऽनन्तनाथस्य चरित्रमिदमुच्यते । यानपात्रमिवापारसंसाराम्भोधितारणे ॥२॥ धातकीखण्डद्वीपे प्राग्विदेहे विजये पुनः । एरावताख्येऽरिष्टेति नगर्यस्ति गरीयसी ॥३॥ राजा पद्मरथो नाम तस्यामासीन्महारथः । द्विषद्रथिरथव्यूहस्खलनैकमहागिरिः ॥४॥ स जित्वाऽपि द्विषोऽशेषान् साधयित्वाऽखिलामिलाम् । न तृणायाप्यमंस्तैनां मोक्षश्रीसाधनोत्सुकः ॥५॥ विहारलीलामुद्याने जलक्रीडां च वापीषु । गन्धर्वाणां च मधुरसंगीतकविलोकनम् ॥६॥ वारणाऽश्वादियानानां गतिवैचित्र्यदर्शनम् । वसन्तकौमुदीप्रायक्रीडोत्सवनिरीक्षणम् ॥७॥ नाटकप्रभृतिदशरुपकाभिनयोत्सवम् । स्वर्विमानप्रतिमानवासौकोवसनं तथा ॥८॥ विचित्रवस्त्रनेपथ्याङ्गरागाकल्पकल्पनम् । न रागात् सोऽन्वभूत् किन्तु लोकयात्रानुवर्तनात् ॥९॥
॥चतुर्भिः कलापकम् ॥ १ प्रतिमानम्-प्रतिबिम्बम्-सादृश्यम् । २ ओक:-हर्म्यम्-गृहम् । ३ आकल्पकल्पनम् -भूषणपरिधानम्। ४ लोकवृत्त्यनुसरणातत्।
282828282828282828282828285
अनन्तजिनस्य पूर्वभवः ।
११५ ॥