________________
त्रिषष्टि
शलाकापुरुषचरिते ॥९६॥
चतुर्थं पर्व द्वितीयः
सर्गः श्रीवासुपूज्यचरितम्।
28282828282828282828282828
चतुर्दशपूर्वभृतां सहस्त्रं द्वे शते तथा । अवधिज्ञानिनां पञ्च सहस्त्राः सचतुःशताः ॥ ३५४॥ मनःपर्यययुक्तानामेकषष्टिः शतानि तु । षष्टिः शतानि विमलकेवलज्ञानशालिनाम् ॥३५५ ॥ जाता वैक्रियलब्धीनां सहस्त्राणि दशैव हि । वादलब्धिमतां सप्तचत्वारिंशच्छतानि तु ॥ ३५६ ॥ श्रावकाणामुभे लक्षे सहस्रा दश पञ्च च । श्राविकाणां चतुर्लक्षी सषट्त्रिंशत्सहस्रिका ॥ ३५७ ॥ चतुःपञ्चाशतं वर्षलक्षाणां मासवर्जितम् । आकेवलाद् विहरतः परिवारः प्रभोरभूत् ॥ ३५८ ॥ ज्ञात्वा च मोक्षमासन्नं ययौ चम्पां जगत्पतिः । प्रपेदेऽनशनं तत्र षड्भिर्मुनिशतैः समम् ॥ ३५९ ॥ मासान्ते चाषाढशुक्लचतुर्दश्यां निशाकरे । उत्तरभद्रपदास्थे सशिष्योऽगाच्छिवं विभुः ॥ ३६० ॥ अष्टादशाब्दलक्षाणि कुमारत्वे व्रते पुनः । चतुःपञ्चाशदित्यायुर्लक्षा द्वासप्ततिः प्रभोः ॥३६१ ॥ श्रेयांसप्रभुनिर्वाणाद् वासुपूज्यस्य निर्वृतिः । सागरेषु चतुःपञ्चाशत्यतीतेष्वजायत ॥ ३६२॥ गीर्वाणेन्द्राः सगीर्वाणा निर्वाणमहिमोत्सवम् । स्वामिनः स्वामिशिष्याणामप्यकार्पुर्यथाविधि ॥३६३ ॥ द्विपृष्ठवासुदेवोऽपि महारम्भपरिग्रहः । मृगारिरिव निःशङ्को देववच्च प्रमद्वरः ॥३६४ ॥ भोगान् यथेच्छं भुञ्जानः पालयित्वायुरात्मनः । विपद्य षष्ठीमगमन्नरकोर्वी तमःप्रभाम् ॥३६५॥
॥युग्मम्॥
P88888888888888888888888885
श्रीवासुपूज्य जिनस्य निर्वाणम्।
॥९६॥
१ सदेवाः।