________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ९७ ॥
DEDEDEDEREREREREREDERERERI
द्विपृष्ठस्य कौमारेऽब्दलक्षं पादोनवर्जितम् । तदेव मण्डलीकत्वे दिग्जयेऽब्दशतं तथा ॥ ३६६ ॥ राज्ये सप्तत्यब्दलक्षी तथा नवशताधिका । वत्सरैकोनपञ्चाशत्सहस्त्रीत्यायुरूर्जितम् ॥ ३६७ ॥ बलभद्रोऽपि पादोनकोटिहायनजीवितः । तस्थौ कथञ्चिदेकाकी स्वभ्रातृस्नेहमोहितः ॥ ३६८ ॥ श्रीवासुपूज्यवचनस्मरणेन बन्धुमृत्या च गाढतरमेव भवाद् विरक्त: । आत्तव्रतो विजयसूरिपदाब्जमूले काले विपद्य च शिवं विजयो जगाम ॥ ३६९ ॥ इत्याचार्यश्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्री वासुपूज्य - द्विपृष्ठ- विजय - तारकचरितवर्णनो नाम द्वितीयः सर्गः ।
REDERERERERERERERERERERERE
चतुर्थं पर्व द्वितीयः सर्गः
श्रीवासुपूज्य - चरितम् ।
विजयबलदेवस्य शिवगमनम् ।
॥ ९७ ॥