________________
चतुर्थं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते ॥९५ ॥
सर्गः
श्रीवासुपूज्यचरितम्।
28282828282828282828282828a
गूथाशिनीनां च गवां स्पर्शतः पूतमानिनाम् । जलादिस्नानमात्रेण पापशुद्धयभिधायिनाम् ॥ ३३९ ॥ वटा-ऽश्वत्था-ऽऽमलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन हव्येन देवप्रीणनमानिनाम् ॥ ३४० ॥ भुवि गोदोहकरणाद् रिष्टशान्तिकमानिनाम् । योषिद्विडम्बनाप्रायव्रतधर्मोपदेशिनाम् ॥३४१॥ जटापटल-भस्माङ्गराग-कौपीनधारिणाम् । अर्क-धत्तूर-मालूरैर्देवपूजाविधायिनाम् ॥३४२ ॥ कुर्वतां गीतनृत्यादि पुतौ वादयतां मुहः । मुहर्वदननादेनाऽऽतोद्यनादविनोदिनाम् ॥३४३ ॥ असभ्यभाषापूर्वं च मुनीन् देवान् जनान् जताम् । विधाय व्रतभङ्गं च दासीदासत्वमिच्छताम् ॥ ३४४ ॥ अनन्तकायकन्दादि-फल-मूल-दलाशिनाम् । कलत्र-पुत्रयुक्तानां वनवासजुषामपि ॥३४५ ॥ भक्ष्याभक्ष्ये पेयापेये गम्यागम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कौलाचार्यन्तवासिनाम् ॥ ३४६ ॥ अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क्व धर्मः क्व फलं तस्य तस्य स्वाख्यातता कथम् ? ॥ ३४७ ॥ जैनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् । आनुषङ्गिकमेवेदं मुख्यं मोक्षं प्रचक्ष्यते ॥ ३४८॥ सस्यहेतौ कृषौ यद्वत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम् ॥ ३४९ ॥ एवं तां देशनां श्रुत्वा भूयांसः प्राव्रजञ्जनाः । प्राप द्विपृष्ठः सम्यक्त्वं श्रावकत्वं च लाङ्गली ॥ ३५० ॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां प्रभुः । द्वितीयां पौरुषीं यावत् सूक्ष्मो गणधरो व्यधात् ॥३५१॥ ततः स्थानादथान्यत्र विजहार जगद्गुरुः । स्थानं निजनिजं जग्मुरिन्द्रोपेन्द्रबलादयः ॥ ३५२ ॥ द्वासप्ततिः सहस्राणि श्रमणानां महात्मनाम् । साध्वीनां लक्षमेकं तु संयमश्रीजुषां खलु ॥ ३५३ ॥
१ गूथम्-मलम्-विष्ठा। २ पुतम्-नितम्बस्य विशेषभावः। ३ अन्तवासिनः शिष्याः ।
128282828282828282828282828
श्रीवासुपूज्य जिनस्य परिवारादिः।
॥ ९५ ॥