________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व द्वितीयः
सर्गः श्रीवासुपूज्यचरितम्।
॥९४॥
282828282828282828282828282
ऋतुकालव्यतिक्रान्तौ भ्रूणहत्याविधायिनाम् । ब्राह्मणानां कुतो धर्मो ब्रह्मचर्यापलापिनाम् ?॥३२५ ॥ अदित्सतोऽपि सर्वस्वं यजमानाज्जिघृक्षताम् । अर्थार्थे त्यजतां प्राणान् क्वाऽकिञ्चन्यं द्विजन्मनाम् ? ॥३२६ ॥ स्वल्पेष्वप्यपराधेषु क्षणाच्छापं प्रयच्छताम् । लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते ? ॥३२७ ॥ जात्यादिमददुर्वृत्तपरिनर्तितचेतसाम् । क्व मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ? ॥३२८ ॥ दम्भसंरम्भगर्भाणां बकवृत्तिजुषां बहिः । भवेदार्जवलेशोऽपि पाखण्डव्रतिनां कथम् ? ॥३२९ ॥ गृहिणी-गृह-पुत्रादिपरिग्रहवतां सदा । द्विजन्मनां कथं मुक्तिर्लोभैककुलवेश्मनाम् ॥३३०॥ अरक्त-द्विष्ट-मूढानां केवलज्ञानशालिनाम् । अनवद्या तत इयं धर्मस्वाख्या ततोऽर्हताम् ॥ ३३१ ॥ रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता । तदभावे कथं नामाहतां वितथवादिता ॥ ३३२ ॥ ये तु रागादिभिर्दोषैः कलुषीकृतचेतसः । न तेषां सूनृता वाचः प्रसरन्ति कदाचन ॥ ३३३ ॥ तथा हि याग-होमादिकर्माणीष्टानि कुर्वताम् । वापी-कूप-तडागादीन्यपि पूर्तान्यनेकशः ॥३३४ ॥ पशूपघाततः स्वर्गिलोकसौख्यं विार्गताम् । द्विजेभ्यो भोजनैर्दत्तैः पितृतृप्तिं चिकीर्षताम् ॥ ३३५ ॥ घृतयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् । पञ्चस्वापत्सु नारीणां पुनरुद्वाहकारिणाम् ॥ ३३६ ॥ अपत्यासंभवे स्त्रीषु क्षेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् ॥ ३३७ ॥ श्रेयोबुद्ध्याध्वरहतच्छागशिश्नोपजीविनाम् । सौत्रामण्यां सप्ततन्तौ सीधुपानविधायिनाम् ॥३३८ ॥
१ 'शोधयताम्' षष्ठी-बहुवचनम् । २ अपुत्रत्वे सति । ३ स्वभार्यायाम् कुलजेन अन्येन वा पुरुषेण पुत्रोत्पादनं वदन्ति तेषाम् । ४ ऋतुकाले
1282828282828282828282828282
देशना।
॥९४॥
आगतेन रजसा। ५'सौत्रामणि'-'सप्ततन्तु' एतौ विशेषयज्ञौ।६ सीधुर्मद्यम्।