________________
चतुर्थं पर्व | द्वितीयः
सर्गः
त्रिषष्टिशलाकापुरुषचरिते ॥८३॥
श्रीवासु
पूज्य
चरितम् ।
282828282828282828282828286
अरुध्यमानप्रसरो विन्ध्यशक्तेर्बलानि सः । मङ्कु प्रभञ्जनो वृक्षानिवाभाक्षीन्महाबलः ॥ १७४ ॥ क्रुद्धः स्वसैन्यभङ्गेन विन्ध्यशक्तिर्महाभुजः । परांन् संहर्तुमुत्तस्थे कालरात्रेरिवानुजः ॥ १७५॥ न सेहे पर्वतानीकैविन्ध्यशक्तिः समापतन् । कुरङ्गैरिव शार्दूलः सुपर्णः पन्नगैरिव ॥ १७६ ॥ सोऽथ विद्रुतसैन्यं तं स्थितं पर्वतकं पुरः । रणायाऽऽह्वास्त कोदण्डदोर्दण्डबलगर्वितः ॥ १७७॥ नाराचैस्तद्वलैरर्धचन्द्रैर्यमरदैरिव । भूभुजौ युयुधाते तावन्योऽन्ययुद्धकाङ्गिणौ ॥१७८ ॥ रथं रथ्यान् सारथिं च रथिनौ तावथो मिथः । ममन्थतुः परिभवाऽऽपमित्यकधराविव ॥ १७९ ॥ ततोऽपररथारूढावभ्याटतुरुभौवपि । विन्ध्यशक्ति-पर्वतको कल्पान्ते पर्वताविव ॥ १८० ॥ सर्वशक्त्या विन्ध्यशक्तिनृपः पर्वतकं नृपम् । चक्रे निरस्त्रं निर्वीर्यं द्विजिह्वमिव निर्विषम् ॥१८१॥ महेभेनेव कलभोऽभिभूतो विन्ध्यशक्तिना। पलायिष्ट पर्वतकः पश्चादनवलोकयन् ॥१८२ ॥ अथाऽग्रहीन विन्ध्यशक्तिर्वेश्यां तां गुणमञ्जरीम् । हस्त्याद्यन्यच्च सर्वस्वं तस्य श्रीर्यस्य विक्रमः ॥१८३ ॥ आपूर्ण इव पाथोदो निवृत्त्य रणसागरात् । कृतकृत्यो विन्ध्यशक्तिर्ययौ विन्ध्यपुरं ततः ॥ १८४ ॥ फालाच्च्युत इव द्वीपी प्रालम्बादिव वानरः । रणभग्नः पर्वतकः कष्टं तस्थौ तदादि सः ॥१८५॥ पराभूत्या तया हीणो नृपः पर्वतकोऽपि हि । संभवाचार्यपादान्ते परिव्रज्यामुपाददे । १८६ ॥
28282828282828288888888888
द्विपृष्ठविजयतारकचरितम्।
॥८३॥
१ शत्रून् । २ गरुडः । ३ आपमित्यकम् विनिमयेन-(अदले-बदले)-आनीतं धनादि । ४ अभिआटतुः अभिजग्मतुः । ५ फालो-भाषायाम्'फाल भरवी'।६ प्रालम्बः शाखा ।७ ततः प्रभृति । ८ लज्जितः ।