________________
त्रिषष्टिशलाकापुरुषचरिते ॥८४॥
चतुर्थं पर्व द्वितीयः
सर्गः श्रीवासुपूज्यचरितम् ।
8282828282828282828282828288
स तपो दुस्तपं तेपे निदानं चाकरोदिति । विन्ध्यशक्तेर्वधायाहं भूयासमपरे भवे ॥ १८७॥ तुषैरिव स माणिक्यं विक्रीयेत्थं महत् तपः । कृत्वान्तेऽनशनं मृत्वा चाभवत् प्राणते सुरः ॥ १८८ ॥ विन्ध्यशक्तिर्भवे भ्रान्त्वा चिरमेकत्र जन्मनि । जिनलिङ्गमुपादाय मृत्वा कल्पामरोऽभवत् ॥१८९ ॥ च्युत्वा च विजयपुरे पल्यां श्रीधरभूपतेः । श्रीमत्यामजनि श्रीमास्तारको नाम दारकः ॥१९० ॥ स सप्ततिधनुस्तुङ्गः कज्जलश्यामलाकृतिः । द्विसप्तत्यब्दलक्षायुर्बभूवामितदोर्बलः ॥१९१॥ सोऽन्ते पितुः प्राप चक्रं भरतार्धमसाधयत् । भवन्ति ह्यर्धभरतस्वामिनः प्रतिविष्णवः ॥१९२ ॥ इतश्च द्वारका नाम सुराष्ट्रमुखमण्डनम् । पश्चिमाम्भोधिकलोलधौतवप्रतलाऽस्ति पूः ॥१९३ ॥ अजिह्मविक्रमस्तस्यां विश्वाक्रमनिवारणः । जिष्णोः सब्रह्मचारीव ब्रह्मेत्यासीन्महीपतिः ॥१९४ ॥ अन्तःपुरप्रधाने च तस्याभूतामुभे प्रिये । सुभद्रोमे गङ्गा-सिन्धू लवणाम्भोनिधेरिव ॥१९५ ॥ प्रेयसीभ्यां समं ताभ्यां चिरं वैषयिकं सुखम् । ब्रह्माऽन्वभूत् सुष्ठ रति-प्रीतिभ्यामिव मन्मथः ॥ १९६ ॥ इतश्च पवनवेगजीवोऽनुत्तरतश्च्युतः । महादेव्याः सुभद्राया उदरे समवातरत् ॥ १९७ ॥ सुखसुप्ता तदानीं च सुभद्रा देव्युदैक्षत । हलभृज्जन्मशंसित्रीं महास्वप्नचतुष्टयीम् ॥१९८ ॥ पुण्डरीकमिव गङ्गा प्राचीव तुहिनद्युतिम् । समयेऽसूत सा सूनुं स्फटिकोपलनिर्मलम् ॥ १९९ ॥ कारामोक्षादिना यच्छञ्जगतोऽपि परां मुदम् । सूनोविजय इत्याख्यामकार्षीद् ब्रह्मभूपतिः ॥२०० ॥ विभिन्नकर्मायुक्ताभिर्धात्रीभिः सोऽथ पञ्चभिः । लाल्यमानो ययौ वृद्धि सहैव स्ववपुःश्रिया ॥२०१॥ १ भवेयम् इत्यर्थः । २ 'तुष' इति-भाषायाम् - 'ढुंसां-फोफ' । ३ विश्व-आक्रमण-निवारणः । ४ तुहिनद्युतिः चन्द्रः। ५ कारा-कारागृहम्, केद' इति भाषायाम् ।
828282828282828282828282828A
द्विपृष्ठविजयतारकचरितम्।
॥८४॥