________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व द्वितीयः
सर्गः श्रीवासुपूज्यचरितम् ।
॥८२॥
28282828282828282828282828
पर्वतकव्यतिकरं तं व्याचख्यावशेषतः । ताहुतिरिवार्चिष्मान् क्रुधा जज्वाल तत्प्रभुः ॥ १६२ ॥ मैत्री चिरभवां लुप्त्वा मर्यादामिव सागरः । विन्ध्यशक्तिश्चचालोऽभिपर्वतं गर्वपर्वतः ॥१६३ ॥ पर्वतोऽप्याजगामाभिमुखं स्वबलवाहनः । शूराणां ह्यभिगमनं सुहृदीवासुहृद्यपि ॥१६४ ॥ द्वयोरप्यग्रसैन्यानां युद्धं प्रववृत्ते ततः । चिराद् दोर्दण्डकण्डूतिरुजाऽपनयनौषधम् ॥ १६५ ॥ अभ्यसर्पन्नवासर्पन सैन्ययोरुभयोरपि । भटाः परस्परं वेदियोधिनो द्विरदा इव ॥१६६ ॥ कुन्तप्रोतोऽपि 'हुँ' कुर्वन् कश्चिदस्खलितं भटः । तन्तुप्रोतो मणिरिव संचचाराभिवैरिणम् ॥ १६७ ॥ धनुर्धरवरोन्मुक्तनिरन्तरशरैरभूत् । अभिलूनशरवणारण्यभूरिव युद्धभूः ॥१६८ ॥ पतद्भिः परिघैः शल्यैर्गदाभिर्मुद्गरैरपि । सपैरिव परप्राणहरैक्नशिरे दिशः ॥१६९ ॥ इतः क्षणं क्षणमितः सैन्ययोरुभयोरपि । जयः समोऽभवज्ज्योत्स्नाप्रसरः पक्षयोरिव । १७०॥ अथ सर्वाभिसारेण धनुरास्फालयन् स्वयम् । रथारूढः पर्वतकः समरायोदतिष्ठत ॥ १७१॥ युगपद्वाणवर्षेण परसैन्यं तिरोदधे । अन्तरिक्षमिवानीकप्रोत्खातावनिपांसुभिः ॥ १७२॥ केसरीवेभयूथेषु परसैन्येषु स क्षणात् । महान्तं प्रलयं चक्रे कृतान्तस्येव भोजनम् ॥ १७३ ॥
१ हुता आहुति: यस्मिन् । २ पर्वतसंमुखम् । ३ कण्डूतिरूजा-भाषायाम् 'चळखंजवाल' । ४ वेदिः परिष्कृता भूमि: तस्यां योधिनः । ५ सर्वतः छिन्नम्-अभिलूनम् । ६ शुक्ल-कृष्णपक्षयोः । ७ समराय युद्धाय, उदतिष्ठत-उत्थितः-सज्जो जातः । ८ अनीकेन सैन्येन प्रोत्खाताभिः 'ऊखेडेलीऊडाडेली' अवनिधूलिभिः । ९ केसरी इव इभ इति विभागः।
RSRSASRSASRVASRSASRSASRSAX
द्विपृष्ठविजयतारक चरितम् ।
॥