________________
त्रिषष्टिशलाकापुरुषचरिते ॥८१॥
चतुर्थं पर्व द्वितीयः
सर्गः श्रीवासुपूज्यचरितम् ।
282828282828282828282828282
नारीषु रत्नभूता सा देवस्यैव हि युज्यते । युवयोरुचितो योगः स्वर्णमण्योरिवास्तु तत् ॥१४८॥ भोज्येनालवणेनेव मुखेनेवापचक्षुषा । अचन्द्रया रजन्येव किं ते राज्येन तां विना ॥ १४९ ॥ इत्याकर्ण्य वचो राजा याचितुं गुणमञ्जरीम् । उपपर्वतकं प्रैषीन्मन्त्रिणं दूतकर्मणा ॥१५०॥ जङ्घालैर्वाहनोम तरद्भिरिव रंहसा । गत्वा स साकेतपुरं नृपं पर्वतमभ्यघात् ॥ १५१॥ नान्यस्त्वत्तो विन्ध्यशक्तिस्तस्मात् त्वमपि नापरः । द्वयोरभेद एवेह वार्धिकलोलजालवत् ॥१५२ ॥ द्वयोरप्येक एवात्मा विभिन्ने वपुषी परम् । त्वदीयं यत् तदीयं तत् तदीयमपि तावकम् ॥ १५३ ॥ तव च स्तूयते वेश्या नामतो गुणमञ्जरी । स्वान्तिकं विन्ध्यशक्तिस्तामानायति कौतुकात् ॥१५४ ॥ सा स्वबन्धोः स्वतुल्यस्य याचमानस्य दीयताम् । दाने साधारणस्त्रीणां ग्रहणे च न गर्हणा ॥१५५ ॥ इत्युक्तो मन्त्रिणा तेन यष्टिस्पृष्ट इवोरगः । कोपकम्प्राधरदलोऽवदत् पर्वतकोऽप्यदः ॥ १५६ ॥ उच्यते स कथं बन्धुर्विन्ध्यशक्तिर्दुराशयः । प्राणेभ्योऽपि प्रियां यो मे याचते गुणमञ्जरीम् ॥१५७॥ मुहूर्तमपि न स्थातुं विना यामलमस्म्यहम् । तां तेनादित्सुना प्राणा अप्युपादित्सिता मम ॥१५८ ॥ दासीमपि न दास्यामि किं पुनर्गुणमञ्जरीम् । अस्तु मित्रममित्रो वा विन्ध्यशक्तिः स्वशक्तितः ॥१५९॥ उत्तिष्ठ गच्छ त्वं तस्मै गत्वाऽऽख्याहि यथातथम् । राज्ञां भवन्ति दूता हि यथावस्थितवादिनः ॥१६०॥ उत्थाय सोऽपि सचिवः साचिविक्षिप्तलोचनः । आरुह्य वाहनान्यागाद् विन्ध्यशक्तेरथान्तिकम् ॥१६१ ॥ १ पर्वतनृपसमीपम्। २ द्रुतगतिभिः । ३ आदित्सुः-ग्रहीतुमिच्छुः । ४ उपादित्सिता: ग्रहीतु-मिच्छाविषयीकृताः । ५ साचिः - तिर्यक् वक्रम् ।
288888888888888888888888888
द्विपृष्ठ-विजय
तारक चरितम्।
॥८१॥