________________
त्रिषष्टिशलाकापुरुषचरिते ॥७३॥
चतुर्थं पर्व द्वितीयः
सर्गः श्रीवासुपूज्यचरितम् ।
WRXXRY AYURURURYAXXXXXRYRY
सुमेरावमराधीशोऽतिपाण्डुकम्बलां शिलाम् । गत्वा सिंहासन उपाविक्षदङ्काहितप्रभुः ॥ ३८ ॥ अथाच्युतप्रभृतयस्त्रिषष्टिरपि वासवाः । स्वामिनं स्नपयामासुः कुम्भैस्तीर्थपयोभृतै : ॥ ३९ ॥ ईशानकल्पाधिपतेरङ्के जिनपतिं ततः । शक्रो निवेशयामास स्वकीय इव चेतसि ॥ ४० ॥ जिनेन्द्रस्य चतसृषु ककुप्सु स्फाटिकान् वृषान् । चतुरो भक्तिचतुरो विचकार पुरन्दरः ॥४१॥ तद्विषाणोत्थितैस्तोयैः स्त्रपयामास स प्रभुम् । अन्येन्द्रस्नपनविधिवैलक्षण्यविचक्षणः ॥ ४२ ॥ उक्ष्णस्तानुपसंहृत्य स्वामिनोऽङ्गं प्रमृज्य च । विलिम्पति स्म गोशीर्षचन्दनेन दिवस्पतिः ॥ ४३ ॥ दिव्यैविभूषणैर्वस्त्रैरभ्यर्च्य कुसुमैरपि । रचिताऽऽरात्रिको नाथमस्तवीदिति वासवः ॥४४॥ चक्रिणां नैव चक्रेण गदया नार्धचक्रिणाम् । न चेशानस्य शूलेन न वज्रेण ममापि वा ॥ ४५ ॥ न चास्त्रैरपरेन्द्राणां यानि भेद्यानि जातुचित् । तानि कर्माणि भिद्यन्ते दर्शनेनापि नाथ ! ते ॥ ४६॥ नैव क्षीरोदवेलाभिर्न प्रभाभिः क्षपापतेः । नैव वारिधरासारैर्न च गोशीर्षचन्दनैः ॥४७॥ न वा निरन्तरै रम्भारामैः शाम्यन्ति ये खलु । सर्वे ते दुःखसंतापाः शीर्यन्ते दर्शनेन ते ॥४८॥ न ये नानाविधैः क्वाथैश्चूर्णैश्च विविधैर्न ये । न च प्राज्यैः प्रलेपैर्ये न च ये शस्त्रकर्मभिः ॥४९॥ न च मन्त्रप्रयोगैर्ये छिद्यन्ते जातु देहिनाम् । आमयास्ते प्रलीयन्ते दर्शनेनापि ते प्रभो ! ॥५०॥ . खलूक्त्वा यदि वाऽनल्पमल्पमेतद् ब्रवीम्यहम् । यत्किञ्चिदप्यसाध्यं तत् साध्यते दर्शनेन ते ॥५१॥ त्वद्दर्शनस्यास्य फलमिच्छाम्येतज्जगत्पते ! । भूयो भूयः संप्रतीव भवद्दर्शनमस्तु मे ॥५२॥
१ क्वाथा:-भाषायाम् 'काढा-ऊकाळा' इति ।
128282828282828282828282828
शक्रकृता स्तुतिः।
॥७३॥