________________
त्रिषष्टिशलाकापुरुषचरिते ॥७२॥
चतुर्थं पर्व द्वितीयः
सर्गः श्रीवासुपूज्यचरितम् ।
1282828282828282828282828286
पवित्रं धारयामास हदि सर्वज्ञशासनम् । श्रीवत्समिव शश्वत् स वत्सलो धर्मशालिषु ॥२४॥ स्वान्ववायसरोहंसी रतिरूपविजित्वरी । जया नाम महादेवी तस्यासीत् प्रीतिभाजनम् ॥ २५ ॥ सा जाह्नवीव गम्भीरा वक्रमन्थरगामिनी । पूर्वाम्भोधिमिवास्ताघं वसुपूज्यमनोऽविशत् ॥ २६ ॥ सद्भक्त्या परमात्मेव शुद्धस्फटिकनिर्मले । वसुपूज्यनृपोऽप्यस्यां सदा चेतस्यवर्तत ॥ २७ ॥ रूपेण लवणिम्ना च गुणैस्तैश्चानुरुपयोः । तयोविलसतोः कालः कोऽप्यद्वैतसुखो ययौ ॥ २८ ॥ इतः कल्पे प्राणताख्ये पद्मोत्तरमहीपतेः । जीवः स्वमायुरुत्कृष्टं सुखमग्नोऽत्यवाहयत् ॥ २९ ॥ ज्येष्ठस्य शुद्धनवम्यां चन्द्रे शतभिषग्गते । स च्युत्वा प्राणताज्जीवो जयाकुक्षाववातरत् ॥३०॥ ईक्षाञ्चके तदानीं च तीर्थकृज्जन्मसूचकान् । सुखसुप्ता जयादेवी महास्वप्नांश्चतुर्दश ॥ ३१ ॥ मृगाङ्कमभ्रलेखेवाद्रिगुहेव मृगाधिपम् । तं गर्भ धारयामास जया स्वामिन्यनुत्तमम् ॥३२॥ फाल्गुनश्यामभूतेष्टातिथौ भेऽपि च वारुणे । रक्तवर्णं महिषात साऽसूत समये सुतम् ॥ ३३ ॥ संजातासनकम्पाः षट्पञ्चाशद्दिक्कुमारिकाः । स्वामिनः स्वामिमातुश्च सूतिकमैत्य चक्रिरे ॥३४॥ शक्रोऽपि पालकारूढस्तत्रैत्य सपरिच्छदः । स्वामिवत् स्वामिभवनं प्रदक्षिण्यकरोद् द्रुतम् ॥ ३५ ॥ तत् प्रविश्य जयादेव्या दत्त्वाऽपस्वापनी हरिः । पार्श्वेऽर्हत्प्रतिबिम्बं च न्यस्याभूत् पञ्चमूर्तिकः ॥ ३६ ॥ मूत्र्यैकयाऽग्रहीन्नाथमातपत्रमथान्यया । द्वाभ्यां तु चमरे वल्गन्नन्यया तु पुरो ययौ ॥ ३७॥
१ वक्रम्, मन्थरम्-मन्दं मन्दम् । २ अस्ताघम् - भाषायाम् 'अथाग' इति । ३ "भूतेष्टा तु चतुर्दशी" - अभिधानचिन्ता० कां० श्लो०६५। ४ वल्गन् वेगेन गच्छन्।
828282828282828282828282828
वासुपूज्यजिन
जन्मोत्सव वर्णनम्।
॥७२॥