________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ७१ ॥
DEREDEREREREDEREREDERERERY
अर्हद्भक्त्यादिभिस्तैस्तैः स्थानकै : कैश्चिदुज्ज्वलैः । सुधीरुपार्जयामास तीर्थकृन्नाम कर्म सः ॥ ११ ॥ खङ्गधारातिनिशितं पालयित्वा चिरं व्रतम् । विपद्याभूत् सुरः कल्पे प्राणताख्ये महद्धिकः ॥ १२ ॥ इतश्च जम्बूद्वीपस्य भरतार्थेऽत्र दक्षिणे । पुर्यस्ति नाम्ना चम्पेति चम्पकोत्तंसवद् भुवः ॥ १३ ॥ तत्र चैत्येषु रत्नाश्मभित्तिषु प्रतिबिम्बितः । वैक्रियाणीव रूपाणि धारयन् लक्ष्यते जनः ॥ १४ ॥ चन्द्राश्मबद्धैः सोपानैर्निशि निःस्यन्दिवारिभिः । तत्र स्वयञ्जलाः क्रीडादीर्घिकाः प्रतिमन्दिरम् ॥ १५ ॥ सद्धूपधूमवल्लीभिर्वासागाराणि तत्र च । पातालभवनानीवोरगीभिर्भान्त्यनेकशः ॥ १६ ॥ क्रीडत्पुरवधूकानि तत्र क्रीडासरांसि च । निर्यदप्सरसः क्षीरोदधेर्दधति विभ्रमम् ॥ १७ ॥ लीलया षड्जबहला गायन्त्यः षड्जकैशिकीम् । भवन्ति केकिकेकानां तत्र संवादिकाः स्त्रियः ॥ १८ ॥ ताम्बूलीबीटेकभृतो भान्ति तत्रेभ्यवेश्मसु । नार्योऽध्यापयितुं हस्तन्यस्तक्रीडांशुका इव ॥ १९ ॥ तत्रासीद् वासव इवौजसा वँसुरिव त्विषा । वसुपूज्य इतीक्ष्वाकुवंश्यो वसुमतीपतिः ॥ २० ॥ स कुर्वन् गर्जितमिव याचकाह्वानडिण्डिमै: । पृथिवीं प्रीणयामास धनैर्वाभिरिवाम्बुद: ॥ २१ ॥ विचेरुः क्रीडया पृथ्व्यां तस्यानीकान्यनेकशः । न पुनर्दिग्जयकृते प्रतापाक्रान्तविद्विष: ॥ २२ ॥ दुष्टानां शासके तस्मिन्नाज्ञासारे महीभुजि । दस्युनाम नामकाण्डेष्वदृश्यत जनेषु न ॥ २३ ॥
१ स्थानैर्बद्धार्हद्रोत्रकः । २ चम्पकशेखरकवत् । ३ सहजसिद्धजलाः । ४ मयूरध्वनीनाम् । ५ बीटक इति भाषायाम् -'बीडुं' । ६ क्रीडार्थे पालिताः शुकाः हस्ते स्थापिता याभिः ७ वसुः सूर्यः । ८ याचकानाम् आमन्त्रणाय वाद्यमानै: डिण्डिमैः । ९ दस्योः नामानि केवलं कोशे एव ।
REDERERERERERERERERERERURY
चतुर्थं पर्व द्वितीय: सर्गः
श्रीवासु
पूज्य -
चरितम् ।
चम्पायां
वसुपूज्यनृपः ।
॥ ७१ ॥