________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व द्वितीयः श्रीवासु
पूज्य चरितम् ।
॥७०॥
28888888888888888888888888
(द्वितीयः सर्गः। श्रीवासुपूज्यजिन-द्विपृष्ठ-विजय-तारकचरितम् ।। नमः श्रीवासुपूज्याय विश्वपूज्याय तायिने । इन्द्रोपेन्द्रकिरीटाग्रघृष्टाङ्ग्रिनखपतये ॥१॥ अर्हन्तमिव रूपस्थध्यानस्थो विश्वपावनम् । वक्ष्यामि तस्य चरितं चन्द्रादप्यतिनिर्मलम् ॥२॥ पुष्करवरद्वीपार्धे प्राग्विदेहविभूषणे । विजये मङ्गलावत्यामस्ति पू रत्नरञ्चया ॥३॥ तस्यां पद्मोत्तरो नाम विश्वपद्मोत्तरः सदा । बभूव राजा रजनीराजराजेव वल्लभः ॥ ४ ॥ अधारयन् मनसि स जैनं शासनमुज्ज्वलम् । तदीयमिव राजानो नित्यं शिरसि भक्तितः ॥५॥ तस्य लक्ष्मीश्च कीर्तिश्च गुणानामेकवेश्मनः । युग्मजाते इव भृशं ववृधाते सहैव हि ॥६॥ पृथ्वी समुद्रसंव्यानां पृथ्वीपतिशिरोमणिः । परिखामेखलामेकपुरीमिव शशास सः॥७॥ चपलाचपला लक्ष्मीर्वयोवद् गत्वरं वपुः । पद्मदलाग्रोदबिंदुवच्च पुण्यं विनश्वरम् ॥८॥ विश्लेषिणो बन्धवोऽपि मार्गसंपृक्तपान्थवत् । इत्यजस्रं भावयन् स भववैराग्यमासदत् ॥९॥॥ युग्मम् ॥ वज्रनाभगुरोः पादमूले गत्वा महामनाः । अन्येधुराददे दीक्षां मुक्तिश्रीप्राप्तितिकाम् ॥१०॥
१ समग्रलक्ष्म्या उत्तमः । 0 नीजानिवज्जनवाल्लभः । २ समुद्रवस्त्राम् । णिः । सर्वो परिखामेक०। ३ चपला-विद्युत्, चपला-चञ्चला। ४ वियोगिन: ।+ तस्य राज्ञः शासनमन्ये राजानो यथा तथा स जैन शासनम् ।
28282828282828282828282828
वासुपूज्यजिनस्य पूर्वभवः ।
॥ ७० ॥