________________
चतुर्थं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥६९॥
सर्गः
श्रेयांस
जिन
चरितम्।
KYNYRYNYRYPERURYPYRYNY PYPYRX
महाटव्यामिवोद्याने श्मशान इव वेश्मनि । गृहस्रोतःस्विव क्रीडासरः स्रोतस्विनीष्वपि ॥९००॥ अपि बन्धुसमाजेषु वैरिवृन्देष्विवानिशम् । न रति बलभद्रोऽगादल्पवारिणि मत्स्यवत् ॥९०१॥॥युग्मम् ॥ श्रेयांसस्वामिपादानां स्मरन् श्रेयस्करी गिरम् । संसारासारतां ध्यायन् विषयेभ्यः पराङ्मुखः ॥९०२ ॥ स्वजनानामपरोधात स्थित्वाहानि च कानिचित् । ययौ बलो धर्मघोषाचार्यपादान्तमन्यदा ॥९०३॥॥युग्मम् ॥ शुश्राव देशनां तस्मादर्हद्वागनुवादिनीम् । विशेषाद् भवनिर्वेदमाससाद तया बलः ॥९०४॥ सद्यो जग्राह दीक्षां च तत्पादान्ते स शुद्धधीः । अनुष्ठाने प्रवर्तन्ते ज्ञात्वा खलु महाशयाः ॥९०५ ॥ स सम्यक् पालयन् मूलगुणोत्तरगुणान् गुणी । सर्वत्र समतां बिभ्रत् सहमानः परीपहान् ॥९०६ ॥ वायुरिवाप्रतिबद्धो भुजङ्गम इवैकहक् । कञ्चित् कालं विजहार ग्रामा-ऽऽकर-पुरादिषु ॥९०७॥॥युग्मम् ॥
अथाब्दलक्षाण्यतिवाह्य पञ्चाशीतिं निसर्गामलचित्तवृत्ति :। कर्माणि सर्वाण्यपि घातयित्वा प्रापाचलः सिद्धिपदे निवासम् ॥९०८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीश्रेयांसजिनत्रिपृष्ठाचलाश्वग्रीवचरितवर्णनो
नाम प्रथमः सर्गः
282828282828282828282828282
अचलस्य
मोक्षः।
॥६९॥
०व सुखं क्रीडास्रोत०। १ आग्रहात् । २ वैराग्यम्।
तयाचल:।