________________
त्रिषष्टिशलाकापुरुषचरिते ॥६८॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम्।
3882828282828282828282828286
प्राणातिपाते निःशङ्को महारम्भपरिग्रहः । क्रूरेणाध्यवसायेन शीर्णसम्यक्त्वभूषणः ॥ ॥८८५ ॥ नारकायुर्निबध्याब्दलक्षाशीतिं चतुर्युताम् । अतीत्यायुस्त्रिपृष्ठोऽगात् सप्तमी नरकावनिम् ॥ ८८६ ॥ तत्रावासे प्रतिष्ठाने पञ्चधन्वशतोन्नतः । त्रयस्त्रिंशत्सागरायुः सोऽपश्यत् कर्मणां फलम् ॥८८७॥ त्रिपृष्ठस्याब्दसाहस्राः कौमारे पञ्चविंशतिः । तावन्तो मण्डलीकत्वेऽब्दसाहस्रं च दिग्जये ॥८८८॥ त्र्यशीतिवर्षलक्ष्येकोनपञ्चाशत्सहस्रयुक् । राज्ये चेति चतुरशीत्यब्दलक्षायुषो मितिः ॥ ८८९ ॥ अथाचलोऽपि शोकेन भ्रातृपञ्चत्वजन्मना । पराबभूवे सद्यः स्वर्भानुना भानुमानिव ॥८९० ॥ विवेक्यप्यविवेकीव भ्रातृस्नेहवशादथ । करुणस्वरमित्युच्चैर्विललाप हलायुधः ॥८९१ ॥ उत्तिष्ठ बन्धो ! निर्बन्धः कोऽयं शयनकर्मणि । अदृष्टपूर्वमालस्यं किं नृसिंहस्य तेऽधुना ॥८९२ ॥ द्वारि भूपतयः सर्वे त्वत्पादान् द्रष्टमुत्सुकाः । अदर्शनान्नाप्रसादस्तेषु युक्तस्तपस्विषु ॥ ८९३ ॥ क्रीडयाऽपि न ते मौनमियद् बान्धव ! युज्यते । भृज्यते हृदयं त्वद्वाक्सुधासारं विना मम ॥ ८९४ ॥ महोत्साहस्य सततं गुरुभक्तस्य वत्स ! ते । निद्रा च मदवज्ञा च न संभवति सर्वथा ॥ ८९५ ॥ हा ! हतोऽस्म्यग्रविधिना किमापतितमस्य मे । इति क्रन्दन् महीपृष्ठे मुशली मूच्छितोऽपतत् ॥ ८९६ ॥ लब्धसंज्ञः क्षणेनापि समुत्थाय च लाङ्गली । हा ! भ्रातर्धांतरित्युच्चैः क्रन्दन्नथेऽग्रहीद्धरिम् ॥ ८९७ ।। वृद्धैः प्रबोधितः सोऽथ धैर्यमालम्ब्य च क्षणम् । अनुजस्याङ्गसंस्कारादिकं कर्म समापयत् ॥८९८ ॥ कृतौदैहिको भ्रातुः स्मरणेन मुहुर्मुहुः । मुमोच लोचनैर्वारि श्रावणाम्भोदवद् बलः ॥८९९ ॥ १०वर्षलक्षी एकोन० इति विभागः । २ स्वर्भानु:- राहुः । ३ आग्रहः । ४ भृज्यते-पच्यते दह्यते । ५ बलदेवः ।
28282828282828282828282828
त्रिपृष्ठस्य सप्तमनरक गमनम्।
॥६८॥